भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5045-5064

5045

आमेरुमलयमुर्वी- वलयमलङ्कृत्य कीर्तिकर्पूरैः ।
मङ्गलमाप्नुहि नित्यं गुणमय जय जीव यावदादित्यम् ॥
आमोदं कुमुदाकरेषु विपदं पद्मेषु कालानलं पञ्चेषोर्विशिखेषु सान्द्रशिशिरक्षारं शशिग्रावसु ।
म्लानिं मानवतीमुखेषु विनयं चेतःसु वामभ्रुवां वृद्धिं वार्धिषु निक्षिपन्नुदयते देवस्तमीकामुकः ॥

5046

आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु ।
व्यामृष्टपत्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥

5047

आमोदाहृतभृङ्गपक्षपवनप्रेङ्खद्रजःपिञ्जरे पद्म श्रीर्वसतीति नाद्भुतमिदं रम्यं प्रकृत्यैव तत् ।
तच्चित्रं यदरातिकण्ठरुधिरप्रक्लिन्नतीक्ष्णस्फुरद्- धारेऽसौ भवतश्चिरं निवसति स्त्रीत्वेऽपि हृष्टा सती ॥

5048

आमोदिना समधुना परिधूसरेण सव्याकुलभ्रमवता पतता पुरस्तात् ।
आयासितास्मि सखि तेन दिवावसाने मत्तेन किं प्रणयिना न हि केसरेण ॥

5049

आमोदीनि सुमेदुराणि च मृदुस्वादूनि च क्ष्मारुहाम् उद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि ।
किंतु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥

5050

आमोदेन कदम्बकन्दलभुवा लिम्पन्नशेषं नभः प्रीतिस्फीतमयूरवृन्दनटनप्रस्तावनापण्डितः ।
अम्भोदप्रथमोदबिन्दुरचनानिर्मृष्टघर्मः शनैर् वायुर्वाति भयंकरः प्रवसतां मेघंकराडम्बरः ॥

5051

आमोदैर्मरुतो मृगाः किसलयोल्लासैस् त्वचा तापसाः पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया ।
स्कन्धैर्गन्धगजास् त्वयैव विहिताः सर्वे कृतार्थास् ततस् त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदोऽन्ये द्रुमाः ॥

5052

आमोदैस् ते दिशि दिशि गतैर्दूरमाकृष्यमाणाः साक्षाल् लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्मः ।
किं पश्यामः सुभग भवतः क्रीडति क्रोड एव व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधयामः ॥

5053

आम्नायानामाहान्त्या वाग् गीतीरीतीः प्रीतीर्भीतीः ।
भोगो रोगो मोदो मोहो ध्येये ध्येच्छे देशे क्षेमे ॥

5054

आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहं मेदश्छेदपदानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पद- द्वन्द्वाम्भोरुहसंस्तुतिं विजयते देवः स नारायणः ॥

5055

अम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ॥

5056

आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः ।
यश्चैनं पयसा सिञ्चेन् नैवास्य मधुरो भवेत् ॥

5057

आम्र यद्यपि गता दिवसास्ते पुष्पसौरभफलप्रचुरा ये ।
हन्त संप्रति तथापि जनानां छाययैव दलयस्यतितापम् ॥

5058

आम्राः किं फलभारनम्रशिरसो रम्याः किमूष्मच्छिदः सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः ।
एतास्ता निरवग्रहोग्रकरभोल्लीढार्धरूढाः पुनः शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥

5059

आम्राङ्कुरोऽयमरुण- श्यामलरुचिरस्थिनिर्गतः सुतनु ।
नवकमठकर्परपुटान् मूर्धेवोर्ध्वं गतः स्फुरति ॥

5060

आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनुर् ज्या यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम् ।
मत्तेभो मलयानिलः परभृतो यद्वन्दिनो लोकजित् सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ॥

5061

आम्रे पल्लविते स्थित्वा कोकिला मधुरस्वरम् ।
चुकूज कामिनां चित्तम् आकर्षन्तीव दूतिका ॥

5062

आम्रैः क्षेमं भल्ला- तकैर्भयं पीलुभिस्तथारोग्यम् ।
खदिरशमीभ्यां दुर्भि- क्षमर्जुनैः शोभना वृष्टिः ॥

5063

आम्लेन ताम्रशुद्धिः स्याच् छुद्धिः कांस्यस्यभस्मना ।
संशुद्धी रजसा नार्यास् तटिन्या वेगतः शुचिः ॥

5064

आयं पश्यन् व्ययं कुर्यात् आयादल्पतरं व्ययम् ।
आयाभावे व्ययं कुर्वन् कुबेरोऽपि विनश्यति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc