भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5025-5044

5025

आमर्षान् मदनः सद्यो दीप्तश् चेतसि जायते ।
स वृद्धिं नीयते कामं तस्मिन् द्वेष्येऽपि योषिताम् ॥

5026

आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधापयन् ।
विदधाति ज्वरं दोषस् तस्माल् लङ्घनमाचरेत् ॥

5027

आमीलन्नवनीलनीरजतुलामालम्बते लोचनं शैथिल्यं नवमल्लिकासहचरैरङ्गैरपि स्वीकृतम् ।
आलापादधरः स्फुरत्कलयति प्रेङ्खत्प्रवालोपमाम् आनन्दप्रभवाश्च बाष्पकणिका मुक्ताश्रियं बिभ्रति ॥

5028

आमीलितनयनानां यत् सुरतरसोऽनुसंविदं कुरुते ।
मिथुनैर्मिथोऽवधारितम् अर्चितमिदमेव कामनिर्वहणम् ॥

5029

आमीलितालसविवर्तिततारकाक्षीम् उत्कण्ठबन्धनदरश्लथबाहुवल्लीम् ।
प्रस्वेदवारिकणिकाचितगण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः ॥

5030

आमुक्तं हृदि मौक्तिकं मृगदृशां भिल्लै रदोप्याददे लुण्टाकैः करटेऽवलुण्ठि पिशितं रक्तं न नक्तंचरैः ।
हे पारीन्द्र करीन्द्रकुम्भदलने भूतो भवानग्रणीः अन्यत्रैव फलोपधानमखिलं हस्ते यशस्ते परम् ॥

5031

आमुक्तपुष्पसुरभीकृतकेशपाशा मुक्तालताप्रहसितस्तनभारखिन्नाः ।
पुण्येन कान्तधवलायतपक्ष्मलाक्ष्यो दास्यो नृणामुपनमन्ति बलात्तरुण्यः ॥

5032

आमुष्मिकैहिकसुखेच्छुभिरर्चनीयं लिङ्गद्वयं पुररिपोरधिनाभितीर्थम् ।
प्रेयःकराग्ररुहभावितचन्द्ररेखं मोदाय कस्य कृतिनो न चिराय लोके ॥

5033

आमूलं क्वचिदुद्धृता क्वचिदपि च्छिन्ना स्थली बर्हिषाम् आनम्रा कुसुमोच्चयाच्च सदयाकृष्टाग्रशाखा लता ।
एते पूर्वविलूनवल्कलतया रूढव्रणाः शाखिनः सद्यच्छेदममी वहन्ति समिधां प्रस्यन्दिनः पादपाः ॥

5034

आमूलकण्टकितकोमलबाहुनालम् आर्द्राङ्गुलीदलमनङ्गनिदाघतप्तः ।
अस्याः करेण करमाकलयामि कान्तम् आरक्तपङ्कजमिव द्विरदः सरस्याः ॥

5035

आ मूलतो वलितकुन्तलचारुचूड- चूर्णालकप्रकरलाञ्छितभालभागः ।
कक्षानिवेशनिविडीकृतनीविरेष वेषश्चिरं जयति कुन्तलकामिनीनाम् ॥

5036

आ मूलतो विद्रुमरागताम्रं सपल्लवाः पुष्पचयं दधानाः ।
कुर्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानाम् ॥

5037

आमूलाग्रं सकलभुवनश्लाघ्यसौरभ्यलीला- खेलः कालागरुतरुवर क्वास्ति धन्यस्त्वदन्यः ।
दूयेऽप्येवं त्वयि विरचितं वीक्ष्य सङ्गं भुजङ्गैः प्रत्यासीदत्पथिकजनताप्राणघातैकतानैः ॥

5038

आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पोद्गमश् छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतर्पणम् ।
बुर्बूरद्रुम साधुसङ्गरहितस्तत्तावदास्तामहो अन्येषामपि शाखिनां फलवतां गुप्त्यै वृतिर्जायसे ॥
आ मूलाद् रत्नसानोर्मलयवलयितादा च कूलात् पयोधेर् यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभ् आग्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥

5039

आमूलान्तात् सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।
प्राप्यासह्यां वेदनामस्तधैर्याद् अप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥

5040

आ मृत्युतो नैव मनोरथानां अन्तोऽस्ति विज्ञातमिदं मयाद्य ।
मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसङ्गि ॥

5041

आमृद्गन्तस्तम इव सरःसीम्नि संभूय पङ्कं तारासार्थैरिव पतिशुचा फेनकैः श्लिष्टपादाः ।
भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिश्चञ्चु चक्रैश् चक्रा बन्दीकृतविरहकृच्चन्द्रलेखा इवैते ॥

5042

आमृद्यन्ते श्वसितमरुतो यत्कुचोत्सेधकम्पैर् अन्तर्ध्यानात् त्रुटति च दृशोर्यद्बहिर्लक्ष्यलाभः ।
पक्ष्मोत्क्षेपव्यतिकरहतो यच्च बाष्पस् तदेते भावाश्चण्डि त्रुटितहृदयं मन्युमावदेयन्ति ॥

5043

आमृशद्भिरभितो वलिवीचीर् लोलमानवितताङ्गुलिहस्तैः
सुभ्रुवामनुभवात् प्रतिपेदे मुष्टिमेयमिति मध्यमभीष्टैः ॥

5044

आमृश्य स्तनमण्डलं प्रतिमुहुः संचुम्ब्य गण्डस्थलीं ग्रीवां प्रत्यवलम्ब्य संभ्रमबलैराहन्यमानः करैः ।
सुप्तस्याद्रिनदीनिकुञ्जगहने मत्तः पयोदानिलैः कर्णान्ते मशकः किमप्यरिवधूसार्थस्य ते जल्पति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc