महासुभाषितसंग्रह · श्लोक 4845-4864
आनन्दस्तिमिताः समाधिषु मुखे गौर्या विलासालसाः संभ्रान्ताः क्षणमद्भुताः क्षणमथ स्मेरा निजे वैकृते ।
क्रूराः कृष्टशरासने मनसिजे दग्धे घृणाकूणितास् तत्कान्तारुदितेश्रुपूरतरलाः शंभोर्दृशः पान्तु वः ॥
आनन्दस्रुतिरात्मनो नयनयोरन्तःसुधाभ्यञ्जनं प्रस्तारः प्रणयस्य मन्मथतरोः पुष्पं प्रसादो रतेः ।
आलानं हृदयद्विपस्य विषयारण्येषु संचारिणो दंपत्योरिह लभ्यते सुकृततः संसारसारः सुतः ॥
आनन्दानतमीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोऽसि प्रकटप्रकम्पपुलकैरङ्गैः स्थितं मुग्धया ।
मुञ्चैनां जड किं न पश्यसि गलद्वाष्पाम्बुधौताननां सख्यैवं गदिते विमुच्य रभसात् कण्ठे विलग्नो मया ॥
आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यं तु ममापि संप्रति कुतस्त्वद्दर्शने चक्षुषः ।
त्वत्सांगत्यसुखस्य नास्मि विषयस्तत्किं वृथा व्याहृतैर् अस्मिन् विश्रुतजामदग्न्यदमने पाणौ धनुर्जृम्भताम् ॥
आनन्दाय सतां भूयात् सुभाषितमिदं मम ।
पृथक्पद्धतिसंमिश्रपरिच्छेदैर्मनोरमम् ॥
आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम् ।
अक्षि मे पुष्परजसा वातोद्धूतेन दूषितम् ॥
आनन्दिनी रोदिति वा निकामं या दुःखिता हास्यरसं विधत्ते ।
रक्ता विरक्ता विरता रता च दुर्लक्ष्यचित्ता खलु वाणिनी या ॥
आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलम् ।
सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्तगोवर्धनः ॥
आनन्दोद्गतबाष्पपूरपिहितं चक्षुः क्षमं नेक्षितुं बाहू स्वेदितयैव कम्पविधुरौ शक्तौ न कण्ठग्रहे ।
वाणी साध्वसगद्गदाक्षरपदा संक्षोभलोलं मनः सत्यं यत् प्रियसंगमोऽपि सुचिराज्जातो वियोगायते ॥
आनन्दोर्मिव्यतिकरदरस्मेरसंसक्तपक्ष्म प्रेमोद्गारप्रवणमसृणारेचितस्निग्धतारम् ।
अन्तश्चिन्ताभरपरिचयाकुञ्चितभ्रूलतान्तं चक्षुश्चेतो हरति हरिणीलोचनायाः तदेतत् ॥
आनम्राः स्तबकभरेण पल्लविन्यः शोभन्ते कति न लताः परागपूर्णाः ।
आमोदे मधुनि च मार्दवे च तासां यो भेदः स खलु मधुव्रतैकवेद्यः ॥
आनम्रास्याः पिहितवदना चित्तमध्ये निरीक्ष्ये मानारम्भः सुमुखि सफलो मामकीनः कथं स्यात् ।
यस्यां यस्यां दिशि दिशि मुखं मानतोऽहं नयामि तस्यां तस्यां सजलजलदश्यामलो नन्दसूनुः ॥
आनयति पथिकतरुणं हरिण इह प्रापयन्निवात्मानम् ।
उपकलमगोऽपि कोमल- कलमावलिकवलनोत्तरलः ॥
आ नाभेः सरसि नतभ्रुवावगाढे चापल्यादथ पयसस् तरङ्गहस्तैः ।
उच्छ्रायि स्तनयुगमध्यरोहि लब्ध- स्पर्शानां भवति कुतोऽथवा व्यवस्था ॥
आनाम्य फलिनीं शाखां पक्वं पक्वं प्रशातयेत् ।
फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम् ॥
आनायमिव मत्स्यानां पञ्जरं शकुनेरिव ।
समस्तपाशं मूढस्य बन्धनं वामलोचना ॥
आनीता नटवन्मया तव पुरः श्रीराम या भूमिका व्योमाकाशखखांबराब्धिवसवस् त्वत्प्रीतयेऽद्यावधि ।
प्रीतो यर्हि निरीक्षणात् त्वमधुना यत् प्रार्थितं देहि मे नो चेद् ब्रूहि कदापि मानय पुनर्मामीदृशीं भूमिकाम् ॥
आनीता शयनाङ्गने प्रियसखीवृन्दैः कथंचिच्छलाच् चित्राक्रान्तकुरङ्गिकेव विगलन्नेत्राम्बुधाराततिः ।
बाष्पोद्वासमुखी विधूनितकरा निक्षेपिताङ्घ्रिद्वया विष्वग्वेल्लितकुन्तला नववधूर्भाग्येन संभुज्यते ॥
आनीतैरिषुकार कारणमिह श्लाघ्यैः किमेभिः शरैः प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि ।
दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः ॥
आनीतो मलयाचलान्मलयजो रत्नस्थले रोपितः पीयूषेण परिप्लुतः प्रतिदिनं यत्नेन संवर्द्धितः ।
आरब्धं यदि तेन सौरभभरैर्भूमण्डलं वासितुं तस्मिन्नेव दिने विधातृवशतो वज्रेण चूर्णीकृतः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0