भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4825-4844

4825

आनन्दकन्दमखिलश्रुतिसारमेकम् अध्यात्मदीपमतिदुस्तरमञ्जनाभम् ।
आकृष्य सान्द्रकुचयोः परिरभ्य कामं संप्राप्य गोपवनिता बत पुण्यपुञ्जाः ॥

4826

आनन्दकारि मदनज्वरदर्पहारि पीयूषपङ्कपरिहासरसानुकारि ।
प्रेमप्रसारि परमाभ्युदयानुकारि वामभ्रुवां हरति किं न मनो विकारि ॥

4827

आनन्द क्वचिदञ्च मुञ्च हृदयं चातुर्य धैर्य त्वया स्थेयं क्वेति विचार्यतां रसिकते निर्याहि पर्याकुला ।
रक्ताम्भोजपरीतषट्पदनदत्पक्षोपमानक्षम- क्षुभ्यत्पक्ष्मचलाचलेक्षणयुगं पश्यामि तस्या मुखम् ॥

4828

आनन्दजः शोकजमश्रु बाष्पस् तयोरशीतं शिशिरो बिभेद ।
गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः ॥

4829

आनन्दताण्डवपुरे द्रविडस्य गेहे चित्रं वसिष्ठवनितासममाज्यपात्रम् ।
विद्युल्लतेव परिनृत्यति तत्र दर्वी धारां विलोकयति योगबलेन सिद्धः ॥

4830

आनन्दधामनि चिदेकरसेऽद्वितीये तस्मिन् पदेऽस्तु मम चित्तमगोचरेऽपि ।
यत् सद्व्रजस्थितिजुषां सुहृदां कुमारा- दीनामधीनमिव गोचरतामुपैति ॥

4831

आनन्दबाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ ।
किं तस्य साधनैरन्यैः किंकराः सर्वपार्थिवाः ॥

4832

आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् ।
विरहस्त्वयैव जनितस् तापयतितरां शरीरं मे ॥

4833

आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम् ।
वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि ॥

4834

आनन्दमादधतमायतलोचनानाम् आनीलमावलितकन्धरमात्तवंशम् ।
आपादमा मुकुटमाकलितामृतौघम् आकारमाकलयताममुमन्तरं नः ॥

4835

आनन्दमिश्रमदनज्वरदीपनानि गाढानुरागरसवन्ति तदा तदा च ।
स्नेहाङ्कनानि मम मुग्धदृशश्च कण्ठे कष्टं स्मरामि तव तानि गतागतानि ॥

4836

आनन्दमुग्धनयनां श्रियमङ्कभित्तौ बिभ्रत् पुनातु भवतो भगवान् नृसिंहः ।
यस्यावलोकनविलासवशादिवासीद् उत्सन्नलाञ्छनमृगः कमलामुखेन्दुः ॥

4837

आनन्दमृगदावाग्निः शीलशाखिमदद्विपः ।
ज्ञानदीपमहावायुर् अयं खलसमागमः ॥

4838

आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले ।
प्रबोधयति पद्मानि तमांसि च निहन्ति कः ॥

4839

आनन्दयति सत्त्वानि यो हि मङ्गलमञ्जुवाक् ।
निन्दामेष्यति लोके सः परवाक्यनिगूहकः ॥

4840

आनन्दयन्तमरविन्दवनानि धूपैर् उद्वेजयन्तमसकृन्नवकैरवाणि ।
प्रक्षालयन्तमभितो भुवनानि धाम्ना भास्वन्तमन्तकमहं विपदां भजामि ॥

4841

आनन्दयन्ति मदयन्ति विषादयन्ति यूनां मनांसि तव यानि विलोकनानि ।
किं मन्त्रमावहसि तादृशमौषधं वा किं वा कृशोदरि दृशोरियमेव रीतिः ॥

4842

आनन्दयन्ति युक्त्या ताः सेविता घ्नन्ति चान्यथा ।
दुर्विज्ञेयाः प्रकृत्यैव तस्माद् वेश्या विषोपमाः ॥

4843

आनन्दसिन्धुरतिचापलशालिचित्त- संदाननैकसदनं क्षणमप्यमुक्ता ।
या सर्वदैव भवता तदुदन्तचिन्ता तान्तिं तनोति तव संप्रति धिग्धिगस्मान् ॥

4844

आनन्दसुन्दरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य ।
पादाम्बुजं भवतु मे विजयाय मञ्जु- मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc