भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4805-4824

4805

आधिव्याधिपरीताय अद्य श्वो वा विनाशिने ।
को हि नाम शरीराय धर्मापेतं समाचरेत् ॥

4806

आधिव्याधिशतैर्वयस्यतितरामारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतत्रिवच् च विवृतद्वारा इव व्यापदः ।
जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात् तत् किं नाम निरङ्कुशेन विधिना यन् निर्मितं सुस्थिरम् ॥

4807

आधूतकेसरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः ।
गुरुसारोऽयमेरण्डो निःसारः खदिरद्रुमः ॥

4808

आधूतसस्वेदकरोत्पलायाः स्मितावगूढप्रतिकूलवाचः ।
प्रियो विहायाधरमायताक्ष्याः पपौ चिराय प्रतिषेधमेव ॥

4809

आ धूमाद् विनिवर्तन्ते सुहृदो बान्धवैः सह ।
येन तत् सह गन्तव्यं तत् कर्म सुकृतं कुरु ॥

4810

आधोरणाङ्कुशभयात् करिकुम्भयुग्मं जातं पयोधरयुगं हृदयेऽङ्गनानाम् ।
तत्रापि वल्लभनखक्षतभेदभिन्नं नैवान्यथा भवति यल्लिखितं विधात्रा ॥

4811

आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ।
हृतान्यपि श्येननखाग्रकोटि- व्यासक्तकेशानि चिरेण पेतुः ॥

4812

आध्मातोद्धतदाववह्निसुहृदः कीर्णोष्णरेणूत्कराः संतप्ताध्वगमुक्तखेदविषमश्वासोष्मसंवादिनः ।
तृष्णार्ताजगरायतास्यकुहरक्षिप्रप्रवेशोत्क् अटाः भ्रूभङ्गैरिव तर्जयन्ति पवनाः प्लुष्टस्थलीकज्जलैः ॥

4813

आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् ।
भ्रमद्भ्रमरसंभारं स्मरामि सरसीरुहम् ॥

4814

आननर्त पुरा शंभुर् गोविन्दो रासकृत्तथा ।
ब्रह्मा पशुत्वमापन्नः स्त्रीभिः को न विडम्बितः ॥

4815

आननस्य मम चेदनौचिती निर्दयं दशनदंशदायिनः ।
शोध्यते सुदति वैरमस्य तत् किं त्वया वद विदश्य नाधरम् ॥

4816

आननानि हरिणीनयनानाम् अद्भुतानि च समीक्ष्य जगत्याम् ।
लज्जयेव घनमण्डललीनो मन्दमन्दमहहेन्दुरुदेति ॥

4817

आननेन्दुशशलक्ष्म कपोले सादरं विरचितं तिलकं यत् ।
तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः ॥

4818

आननैर्विचकसे हृषिताभिर् वल्लभानभि तनूभिरभावि ।
आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥

4819

आनन्दं कुमुदादीनाम् इन्दुः कन्दलयन्नयम् ।
लङ्घयत्यम्बराभोगं हनूमानिव सागरम् ॥

4820

आनन्दं कृतमेव कैरवकुलं प्रोल्लासितो वारिधिः संतापं तपनोपलस्य शमितः कान्त्या दिशोऽलंकृताः ।
एतेनाभ्युदयेन चन्द्र भवता त्रैलोक्यमाप्यायितं कैवल्यं कमलस्य दैवघटितं नात्रापि निन्द्यो भवान् ॥

4821

आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने ।
ईर्ष्यन्त्या वदनमसिक्तमप्यनल्प- स्वेदाम्बुस्नपितमजायतेतरस्याः ॥

4822

आनन्दं विदुषां तनोति तनुते कर्णज्वरं विद्विषां श्रीमानादिवराहपादसरसीजन्म प्रणामं मुहुः ।
सद्बन्धुर्गुणसिन्धुरन्धलगुडो धर्मस्य वर्त्मावनेः श्रीमल्लक्ष्मणसेनदक्षिणभुजादण्डोऽपि दण्डे कटुः ॥

4823

आनन्दं सदनं सुताश्च सुधियः कान्ता न दुर्भाषिणी सन्मित्रं सुधनं स्वयोषिति रतिश्चाज्ञापराः सेवकाः ।
आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे साधोः सङ्गमुपासते च सततं धन्यो गृहस्थाश्रमः ॥

4824

आनन्दकन्दमकरन्दकरम्बितानि पङ्केरुहाणि परिहृत्य समागतस् त्वम् ।
सौरभ्यसारि सहकारि तथा विधेयं येनोपहासविषयो न भवेद् द्विरेफः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc