भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4785-4804

4785

आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा या मयोद्वेष्टनीया ।
स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीं गण्डाभोगात् कठिनविषयामेकवेणीं करेण ॥

4786

आद्ये यामे तु शङ्खः स्यान् महाशङ्खो द्वितीयके ।
पद्मस्तृतीयके यामे महापद्मश् चतुर्थके ॥

4787

आद्यैर्मद्विहितैः पद्यैः कियद्भिरपरैरपि ।
युता पद्धतिरेषास्तु सज्जनानन्ददायिनी ॥

4788

आद्योऽध्रुवस् ततो मण्ठः प्रतिमण्ठो निसारुकः ।
अडतालस् ततो राग एकताली च संमता ॥

4789

आद्योऽन्तस्थोऽप्यनन्तं दिशति फलमसावद्वितीयं द्वितीयस् तार्तीयीकः पवर्गप्रकृतिरपि बलेनापवर्गं प्रसूते ।
तुर्यश्चातुर्यभाजां विसृजति चतुरः श्रोत्रपान्थः पुमर्थान् राम त्वन्नामवर्णा जगति कतिपयं कौतुकं तन्वते न ॥

4790

आ द्वीपात् परतोऽप्यमी नृपतयः सर्वे समभ्यागताः कन्येयं कलधौतकोमलरुचिः कीर्तेश्च लाभः परः ।
नाकृष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः केनापीदमहो महद् धनुरिदं निर्वीरमुर्वीतलम् ॥

4791

आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर- व्यूहोल्लेखपदावलीवलिमयैरङ्गैर्मुदं मन्दरः ।
आधारीकृतकूर्मपृष्ठकषणप्रक्षीणमूलोऽधुना जानीमः परतः पयोधिमथनादुच्चैस्तरोऽयं गिरिः ॥

4792

आधर्मिकः कदर्यो गुणविमुखः परुषवागनेकमतिः ।
भुङ्क्ते संपदमीदृग् ब्रूत नृकारः किमस्ति दैवं वा ॥

4793

आधातुं विनयं निरागसि नरे कुप्यन्तु नामेश्वरास् तेन स्वाशयशुद्धिरेव सुकरा प्रायः प्रभूणां पुरः ।
मिथ्यामानिनि मन्यसे यदि तदा नित्यं मनोवर्तिनी ध्याता तामरसाक्षि चित्रपटके का वा त्वदन्या मया ॥

4794

आधातुर्भुवनं तदेतदखिलं चक्षुष्मदाकीटकाद् दिव्यं चक्षुरनन्यलभ्यमुभयत्रास्ते परं दुःसहम् ।
फाले भूतपतेर्मनोभवमुखक्षुद्रक्षयोज्जागरं बाणे च प्रतिराजदर्पदलनं बल्लालपृथ्वीपतेः ॥

4795

आधाय कोमलकराम्बुजकेलिनालीम् आलीसमाजमधिकृत्य समालपन्ती ।
मन्दस्मितेन मयि साचिविलोकितेन चेतश्चकोरनयना चुलुकीचकार ॥

4796

आधाय दुग्धकलशे मन्थानं श्रान्तदोर्लता गोपी ।
अप्राप्तपारिजाता दैवे दोषं निवेशयति ॥

4797

आधाय द्रुतमाकृतेरुपशमाद् विश्वासनं संनिधौ एकैकं शफरं बकोटकपटाचार्यो जिघृक्षन् मुहुः ।
औदासीन्यनिवेदनाय निदधद् दिक्षु क्षणं चक्षुषी चञ्च्वा किञ्च परामृशन् वपुरयं गाम्भीर्यमभ्यस्यति ॥

4798

आधाय मूर्धनि वृथैव भरं महान्तं मूर्खा निमज्जथ कथं भवसागरेऽस्मिन् ।
विन्यस्य भारमखिलं पदयोर्जनन्या विस्रब्धमुत्तरत पल्वलतुल्यमेनम् ॥

4799

आधारः कन्दमित्युक्तं स्वाधिष्ठानं च जन्मभूः ।
नाभिस्तु मणिपूराख्यं हृदयं विद्ध्यनाहतम् ॥

4800

आधारजन्मभूतानि हृत्कण्ठस्तालुनासिके ।
भ्रूमध्ये मस्तकद्वारं दशस्थानेषु धारणा ॥

4801

आधाराय धरावकाशविधयेऽप्याकाशमालोकने भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन ।
इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसाम् ॥

4802

आधारे हृदये शिखापरिसरे संधाय मेधामयि त्रेधा बीजतनूमनूनकरुणापीयूषकल्लोलिनीम् ।
त्वां मातर्जपतो निरङ्कुशनिजाद्वैतामृतास्वादन- प्रज्ञाम्भश्चुलुकैः स्फुरन्तु पुलकैरङ्गानि तुङ्गानि मे ॥

4803

आधिक्यादधरसुधा स्खलेदिति प्राप्तशङ्कया विधिना ।
रचितं तदुपष्टम्भे चिबुकं पाटीरमादधता ॥

4804

आधिक्षामां विरहशयने संनिकीर्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc