महासुभाषितसंग्रह · श्लोक 4765-4784
आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता पश्चात्तापभरेण तानवकृता नीता परं लाघवम् ।
उत्सङ्गान्तरवर्तिनामनुगमात् संपीडिता गामिमां सर्वाङ्गप्रणयप्रियामिव तरुच्छाया समालम्बते ॥
आदौ यादोनिवासोक्तिः पारावारवरोक्तयः ।
क्षीरनीरनिधेरुक्तिर् नद्युक्तिर्जाह्नव्युक्तयः ॥
आदौ रक्तं पुना रक्तं मध्य उज्ज्वलभास्वरम् ।
दुर्निरीक्ष्यप्रभावं तं दृश्यं द्रष्टारमाश्रये ॥
आदौ राजेत्यधीराक्षि पार्थिवः कोऽपि गीयते ।
सनातनश्च नैवासौ राजा नापि सनातनः ॥
आदौ रूपविनाशिनी कृशकरी कामस्य विध्वंसिनी प्रज्ञामान्द्यकरी तपःक्षयकरी धर्मस्य निर्मूलिनी ।
पुत्रभ्रातृकलत्रभेदनकरी लज्जाङ्कुरच्छेदिनी सा मां पीडति सर्वदोषजननी प्राणापहन्त्री क्षुधा ॥
आदौ रूपविनाशिनी कृशकरी कामाङ्कुरच्छेदिनी पुत्रामित्रकलत्रभेदनकरी गर्वाङ्कुरच्छेदिनी ।
कामं मन्दकरी तपःक्षयकरी धर्मस्य निर्मूलनी सा मां संप्रति सर्वरोगजननी प्राणापहन्त्री क्षुधा ॥
आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने ।
खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि ॥
आदौ वरं निर्धनत्वं धनिकत्वमनन्तरम् ।
तथादौ पादगमनं यानगत्वमनन्तरम् ।
सुखाय कल्पते नित्यं दुःखाय विपरीतकम् ॥
आदौ वितत्य चरणौ विनमय्य कण्ठम् उत्थाप्य वक्त्रमभिहत्य मुहुश्च वत्साः ।
मात्रा विवर्तितमुखं मुखलिह्यमान- पश्चार्धसुस्थमनसः स्तनमुत्पिबन्ति ॥
आदौ विस्मयनिस्तरङ्गमनु च प्रेङ्खोलितं साध्वसैर् व्रीडानम्रमथ क्षणं प्रविकसत्तारं दिदृक्षारसैः ।
आकृष्टं सहजाभिजात्यकलनात् प्रेम्णा पुरह् प्रेरितं चक्षुर्भूरि कथंकथंचिदगमत् प्रेयांसमेणीदृशः ॥
आदौ वेश्या पुनर्दासी पश्चाद् भवति कुट्टिनी ।
सर्वोपायपरिक्षीणा वृद्धा नारी पतिव्रता ॥
आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शंभोर्निटिलमहसा बद्धमैत्रीनिरूढः ।
प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस् तपति किरणैर्मामिति प्राप्तमेतम् ॥
आद्यः कोपस्तदनु मदनस्त्वद्वियोगस् तृतीयः शान्त्यै दूतीवचनमपरः पञ्चमः शीतभानुः ।
इत्थं बाला निरवधि परं त्वां फलं प्रार्थयन्ती हा हा पञ्चज्वलनमधुना सेवते योगिनीव ॥
आद्यः प्रवेशसमयः स कलेर्युगस्य प्राप्तस्तिरस्कृतबहूदकहंससार्थः ।
आहूय सादरतया तपसोऽन्ति मेऽह्नि काणो द्विजः प्रतिगृहं बत यत्र पूज्यः ॥
आद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः ।
सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः ॥
आद्यन्तौ च तदाद्यन्तौ तदाद्यन्तौ च मध्यमौ ।
वह्नीन्दुवायुवरुणपुत्रौ पितृसमप्रभौ ॥
आद्याद्यस्य गुणं तेषाम् अवाप्नोति परः परः ।
यो यो यावतिथश्चैषां स स तावद् गुणः स्मृतः ॥
आद्यूनस्तमसां चकोररमणीरागाब्धिमन्थाचलो जीवातुर्जलजस्य वासवदिशाशैलेन्द्रचूडामणिः ।
आदेष्टा श्रुतिकर्मणां कुमुदिनीशोकाग्निपूर्णाहुतिर् देवः सोमरसायनं विजयते विश्वस्य बीजं रविः ॥
आद्ये जग्मुषि ताम्रचूडरटिते श्रोत्रं प्रबुद्धा जवात् किंचिद् वासवदिङ्मुखं प्रविकसद् दृष्ट्वा गवाक्षाध्वना ।
संत्रासेन समीरिता प्रियतमप्रेम्णा च रुद्धा शनैर् उत्थानोपनिवेशनानि कुरुते तल्पे मुहुः पांसुला ॥
आद्येन हीना जलधावदृश्यं मध्येन हीनं भुवि वर्णनीयम् ।
अन्तेन हीनं ध्वनते शरीरं हेमाभिधः स श्रियमातनोतु ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0