भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4745-4764

4745

आदौ चित्ते ततः काये सतां संजायते जरा ।
असतां च पुनः काये नैव चित्ते कदाचन ॥

4746

आदौ छायातिदीर्घापि प्राच्यामल्पतरा ततः ।
तथा मैत्र्यसतामादौ दीर्घाप्यल्पतरा भवेत् ॥

4747

आदौ तद्धितकृत् स्नेहं कार्यं स्नेहमनन्तरम् ।
कृत्वा सधर्मवादं च मध्यस्थः साधयेद्धितम् ॥

4748

आदौ तन्व्यो बृहन्मध्या विस्तारिण्यः पदे पदे ।
यायिन्यो न निवर्तन्ते सतां मैत्र्यः सरित्समाः ॥

4749

आदौ तातो वरं पश्येत् ततो वित्तं ततः कुलम् ।
यदि कश्चिद् वरे दोषः किं धनेन कुलेन किम् ॥

4750

आदौ तावद् व्यापारस्था यमवरुणधनदसदृशा भवन्त्यतिगर्विता मानोन्मत्ता दर्पोत्सिक्ताः परिभवहरणनिरता भवन्त्यतिदारुणाः ।
भ्रष्टास्तेभ्यो व्यापारेभ्यो हतिनिगडनियतचरणास् तथा लगुडार्दिता लम्बैः कूर्चैर्दीनैर्वक्त्रैर्मुनय इव शमदमरता भवन्त्यतिभद्रकाः ॥

4751

आदौ तु मन्दमन्दानि मध्ये समरसानि च ।
अन्ते स्नेहायमानानि संगतान्युत्तमैः सह ॥

4752

आदौ तु रमणीयानि मध्ये तु विरसानि च ।
अन्ते वैरायमाणानि संगतानि खलैः सह ॥

4753

आदौ दर्शयति नतिं यान्ती यान्ती समुन्नतिं धत्ते ।
अनुकूलापि वराही चिरेण तुच्छं फलं धत्ते ॥

4754

आदौ धर्मे प्रमाणं विविधविधिभिदाशेषतां च प्रयुक्तिं पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहम् ।
बाधं तन्त्रं प्रसङ्गं नयमनयशतैः सम्यगालोचयद्भ्यो भिन्ना मीमांसकेभ्यो विदधति भुवि के सादरं वेदरक्षाम् ॥

4755

आदौ नमस्कृतिः पश्चाद् आशंसावचनानि च ।
सुभाषितप्रशंसा च कविकाव्यस्तुतिस् ततः ॥

4756

आदौ नम्रस् ततह् स्तब्धः कार्यकाले च निष्ठुरः ।
कृते कार्ये पुनर्नम्रः शिश्नतुल्यो वणिग्जनः ॥

4757

आदौ नम्राः पुनर्वक्राः स्वीयकार्येषु तत्पराः ।
कार्यान्ते च पुनर्वक्राः काण्वास्तु प्राणघातकाः ॥

4758

आदौ न वाप्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः ।
उत्क्षिप्य यत् क्षिपति तत् प्रकरोति लज्जां भूमौ स्थितस्य पतनाद् भयमेव नास्ति ॥

4759

आदौ नेच्छति नोज्झति स्मरकथां व्रीडाविमिश्रालसा मध्ये ह्रीपरिवर्जिताभ्युपरमे लज्जाविनम्रानना ।
भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादरा बुद्ध्वा पुंप्रकृतिं यानुचरति ग्लानेतरैश्चेष्टितैः ॥

4760

आदौ पत्रविचित्रितः पुनरसौ मुग्धप्रसूनाङ्कितः पश्चात् स्निग्धफलोद्गमे घनरसैः सिक्तो मया सर्वतः ।
दानोन्मत्तदुरन्तवारणकटीसंघट्टनैः केवलं सोऽयं घूर्णित एव दैववशतो माकन्दभूमीरुहः ॥

4761

आदौ प्रेमकषायिता हरमुखव्यापारलोला शनैर् व्रीडाभारविधूर्णिता मुकुलिता धूमोद्गमव्याजतः ।
पत्युः संमिलिता दृशा सरभसव्यावर्तनव्याकुला पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु वः ॥

4762

आदौ बुध्येत पणितः पणमानश्च कारणम् ।
ततो वितर्क्योभयतो मतः श्रेयस् ततो व्रजेत् ॥

4763

आदौ मज्जनचीरहारतिलकं नेत्राञ्जनं कुण्डलं नासामौक्तिकमालतीविकरणं झंकारकं नूपुरम् ।
अङ्गे चन्दनचर्चितं मणिगणः क्षुद्रावलिर्घण्टिका ताम्बूलं करकङ्कणं चतुरता शृङ्गारकाः षोडश ॥

4764

आदौ माता गुरोः पत्नी ब्रह्मणी राजपत्निका ।
धेनुर्धात्री तथा पृथ्वी सप्तैता मातरः स्मृताः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc