भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4725-4744

4725

आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः ।
पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर् दृष्टा दृप्तासुरोरस्तलदरणगलद्रक्तरक्ता नखा वः ॥

4726

आदित्यादपि नित्यदीप्तममृतप्रस्यन्दि चन्द्रादपि त्रैलोक्याभरणं मणेरपि तमःकाषं हुताशादपि ।
विश्वालोकि विलोचनादपि परब्रह्मस्वरूपादपि स्वान्तानन्दनमस्तु धाम जगतस्तोषाय सारस्वतम् ॥

4727

आदित्यादिग्रहाः सर्वे नक्षत्राणि च राशयः ।
आयुः कुर्वन्तु ते नित्यं यस्यैषा जन्मपत्रिका ॥

4728

आदित्याद्या ग्रहाः सर्वे यथा तुष्यन्ति दानतः ।
सर्वस्वेऽपि न तुष्येत जामाता दशमो ग्रहः ॥
आदित्याय तमः सृष्टं मेघाय ग्रीष्मशोषणम् ।
मार्गश्रमस् तु वृक्षाय दुःखिनस् तूपकारिणे ॥

4729

आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् ।
बहुरूपो मुहूर्तश्च जीवेतापि कदाचन ॥

4730

आदिमत्स्यः स जयताद् यः श्वासोच्छ्वासितैर्जलैः ।
गगने विदधेऽम्भोधिं गगनं च महोदधौ ॥

4731

आदिमध्यनिधनेषु सौहृदं सज्जने भवति नेतरे जने ।
छेदतापननिघर्षताडनैर् नान्यभावमुपयाति काञ्चनम् ॥

4732

आदिमध्यान्तरहितं दशाहीनं पुरातनम् ।
अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिम् ॥

4733

आदिमध्यावसाने च नैव गच्छति विक्रियाम् ।
अत एव कुलीनानां नृपाः कुर्वन्ति संग्रहम् ॥

4734

आदिराजयशोबिम्बम् आदर्शं प्राप्य वाङ्मयम् ।
तेषामसंनिधानेऽपि न स्वयं पश्य नश्यति ॥

4735

आदीप्तवह्निसदृशैर्मरुतावधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।
सद्यो वसन्तसमयेन समागतेयं रक्तांशुका नववधूरिव भाति भूमिः ॥

4736

आदीर्घेण चलेन वक्रगतिना तेजस्विना योगिना नीलाब्जद्युतिनाहिना वरमहं दृश्यो न तच्चक्षुषा ।
दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न चाप्यौषधम् ॥

4737

आदूरात् प्रतिपान्थमाहितदृशः प्रत्याशयोन्मीलति ध्वान्ते स्वान्तमहर्व्ययेऽपि न परावृत्तं कुरङ्गीदृशः ।
तस्या निःसहबाहुवल्लिविगलद्धम्मिल्लवद् भङ्गुर- ग्रीवं दीर्घमजीववत् प्रियसखीवर्गेण नीतं वपुः ॥

4738

आदृतकुपितभवानी- कृतकरमालादिबन्धनव्यसनः ।
केलिकलाकलहादौ देवो वः शंकरः पायात् ॥

4739

आदृता नखपदैः परिरम्भाश् चुम्बितानि घनदन्तनिपातैः ।
सौकुमार्यगुणसंभृतकीर्तिर् वाम एव सुरतेष्वपि कामः ॥

4740

आ दृष्टिप्रसरात् प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
गत्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥

4741

आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥

4742

आदेहदाहं कुसुमायुधस्य विधाय सौन्दर्यकथादरिद्रम् ।
त्वदङ्गशिल्पात् पुनरीश्वरेण चिरेण जाने जगदन्वकम्पि ॥

4743

आदौ कुलं परीक्षेत ततो विद्यां ततो वयः ।
शीलं धनं ततो रूपं देशं पश्चात् विवाहयेत् ॥

4744

आदौ गृहीतपाणिः पश्चादारूढजघनकटिभागा ।
नखमुखलालनसुखदा सा किं रामास्ति नैव भोः पामा ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc