महासुभाषितसंग्रह · श्लोक 4705-4724
आदायादाय मुक्तास्तदनु शिखिधियादाय माणिक्यवर्गं धूमभ्रान्तिं वहन्त्यः स्ववदनकमलामोदलुब्धालिवृन्दे ।
पक्तुं भिल्ल्यः प्रवृत्ताः सरभसमसकृद् यद्द्विषत्पत्तनेषु ब्रूमः किं कीर्तिपूरं धवलितवसुधं मल्लशाहस्य तस्य ॥
आदायामृतपूर्णमर्कचषकं शोणारविन्दप्रभे पाणाविन्द्रवधूर्विलोक्य च पुनस् तस्मिन् नभःश्यामिकाम् ।
चिक्षेपोपरि कोपतः परिजनेऽसंशोध्य दत्ता सुधेत्य् एनं तं शशिनं प्रशंसति जनस् तत्पाणिमुक्तार्जुनम् ॥
आदावघटितं कार्यं मध्ये सुघटितं मम ।
भूयो विघटितं भूयो भूयाद् घटयितुं प्रभुः ॥
आदावङ्कुरितं पुनः प्रतिपदं पत्रावृतं त्वां मुदा सौरभ्यस्फुरितप्रसूनकलितं दृष्ट्वाथ हृष्टोऽस्म्यहम् ।
किं ब्रूमः फलिते त्वयि द्रुततरं हा हन्त किम्पाक हे भूयो व्याकुलयन्ति कण्टकभराः सर्वत्र तत् किं ब्रुवे ॥
आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित- प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् ।
संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥
आदावप्युपचारचाटुविनयालंकारशोभान्वितं मध्ये चापि विचित्रवाक्यकुसुमैरभ्यर्चितं निष्फलैः ।
पैशुन्याविनयावमानमलिनं बीभत्समन्ते च यद् दूरे वोऽस्त्वकुलीनसंगतमसद्धर्मार्थमुत्पादितम् ॥
आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शम्भुजटाविभूषणमणिर् जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥
आदावायुः परीक्षेत पश्चाल्लक्षणमुत्तमम् ।
आयुर्हीननराणां च लक्षणैः किं प्रयोजनम् ॥
आदावुत्सृज्य कार्याणि पश्चाच्च प्रार्थयन्ति ये ।
ते लोके हास्यतां यान्ति पलाण्डुहरणादिव ॥
आदावेव गजेन्द्रमौलिविलसद्दण्डा पताकावली पश्चाद् वारणराजधोरणिरतिप्रोद्दामयोधाश्रिता ।
उद्दण्डध्वजलाञ्छिताप्यथ घनीभूता रथानां ततिस् तत्पश्चात् तुरगावली विजयते योधैः समं सर्वतः ॥
आदावेव मनुष्येण वर्तितव्यं यथा क्षमम् ।
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ॥
आदिकवी चतुरास्यौ कमलजवल्मीकजौ वन्दे ।
लोकश्लोकविधात्रोर् ययोर्भिदा लेशमात्रेण ॥
आदितामजननाय देहिनाम् अन्ततां च दधतेऽनपायिने ।
बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥
आदितालो जयन्तः स्याच् छृङ्गाररससंयुतः ।
रुद्रसंख्याक्षरपदैर् आयुर्वृद्धिकरः परः ।
एक एव लघुर्यस्मिन्न् आदितालः स कथ्यते ॥
आदित्यचन्द्रहरिशंकरवासवाद्याः शक्ता न जेतुमतिदुःखकराणि यानि ।
तानीन्द्रियाणि बलवन्ति सुदुर्जयानि ये निर्जयन्ति भुवने बलिनस्त एके ॥
आदित्यचन्द्रावनिजज्ञजीवः शुक्रार्कपुत्रा अपि राहुकेतू ।
कुर्वन्तु नित्यं धनधान्यसौष्ठ्यं दीर्घायुरारोग्यशुभान्यमी वः ॥
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश् च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥
आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ।
जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥
आदित्यस्योदयो गानं ताम्बूलं भारतीकथा ।
इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0