महासुभाषितसंग्रह · श्लोक 4685-4704
आदरेण यथा स्तौति धनवन्तं धनेच्छया ।
तथा चेद् विश्वकर्तारं को न मुच्येत बन्धनात् ॥
आदरेणार्जवेनैव शौर्याद् दानेन विद्यया ।
प्रत्युत्थानाभिगमनैर् आनन्दस्मितभाषणैः ।
उपकारैः स्वाशयेन वशीकुर्याज्जगत् सदा ॥
आ दर्शनात् प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् ।
बाणेन मकरकेतोः कृतमार्गमवन्ध्यपातेन ॥
आदर्शाय शशाङ्कमण्डलमिदं हर्म्याय हेमाचलं दीपाय द्युमणिं महीमिव कथं नो भिक्षवे दत्तवान् ।
दित्सापल्लवितप्रमोदसलिलव्याकीर्णनेत्राम्बुजो जानीमो भृगुनन्दनस्तदखिलं न प्रायशो दृष्टवान् ॥
आदातव्यं न दातव्यं प्रियं ब्रूयन् निरर्थकम् ।
आशां कालवतीं कुर्यात् कालं विघ्नेन योजयेत् ॥
आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्जनवार्तयापि सहसा रक्तं तलं पादयोः ।
अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदावहं हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते ॥
आदानं चैव तूणीरात् संधानं कर्षणं तथा ।
क्षेपणं च त्वरायुक्तो बाणस्य कुरुते तु यः ।
नित्याभ्यासवशात् तस्य शीघ्रसंधानता भवेत् ॥
आदानपानलेपैः काश्चिद् गरलोपतापहारिण्यः ।
सदसि स्थितैव सिद्धौ- षधिवल्ली कापि जीवयति ॥
आदानमप्रियकरं दानं च प्रियकारकम् ।
अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ॥
आदाय करमाढ्येभ्यः कीकटेष्वपि वर्षसि ।
प्रपीय वारि सिन्धुभ्यः स्थलेष्विव घनाघनः ॥
आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः ।
यश्चित्रमच्युतशरो लक्ष्यमभाङ्क्षीन्नमस्तस्मै ॥
आदाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः ।
अब्धौ निमज्जन्निव तापसोऽयं संध्याभ्रकाषायमधत्त सायम् ॥
आदाय धनमनल्पं ददानया सुभग तावकं वासः ।
मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैर्निःस्वा ॥
आदाय पत्रं त्वरितं यदि श्वा दूर्वां नवां वा नवगोमयं वा ।
प्रयाति यातुः परतस् तदानीं राजप्रसादं नियतं ब्रवीति ॥
आदाय प्रतिपक्षकीर्तिनिवहान् ब्रह्माण्डमूषान्तरे निर्विघ्नं धमता नितान्तमुदितैः स्वैरेव तेजोऽग्निभिः ।
तत्तादृक्पुटपाकशोधितमिव प्राप्तं गुणोत्कर्षिणां पिण्डस्थं च महत्तरं च भवता निःक्षारतारं यशः ॥
आदाय मांसमखिलं स्तनवर्जमङ्गान् मां मुञ्च वागुरिक यामि कुरु प्रसादम् ।
सीदन्ति शष्पकवलग्रहणानभिज्ञा मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥
आदाय वकुलगन्धान् अन्धीकुर्वन् पदे पदे भ्रमरान् ।
अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ॥
आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरर्णवेन ।
क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ॥
आदाय वारि यत एव जहाति भूयस् तत्रैव यः स जलदः प्रथमो जडानाम् ।
वान्तं प्रतीप्सति तदेव तदेव यस्तु स्रोतःपतिः स निरपत्रपसार्थवाहः ॥
आदाय विप्रस्वमपि नाशयेद् राज्यघातिनः ।
आदायास्थि दधीचेस्तु शक्रो दैत्यान् जघान हि ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0