महासुभाषितसंग्रह · श्लोक 4343-4362
आक्रोशकसमो लोके सुहृदन्यो न विद्यते ।
यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति ॥
आक्रोशन्नाह्वयन्नन्यान् आधावन् मण्डलं रुदन् ।
गाः कालयति दण्डेन डिम्भः सस्यावतारिणीः ॥
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् ।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥
आक्रोशेन न दूयते न च पटुः प्रोक्तः समानन्द्यते दुर्गन्धेन न बाध्यते न च समं मोदेन संजीयते ।
स्त्रीरत्नेन न रज्यते न च मृतस्नानेन विद्वेष्यते माध्यस्थेन विराजितो विजयते कोऽप्येष योगीश्वरः ॥
आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् ।
कोषदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥
आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धस्त्वया त्रिधा मध्ये ।
इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ॥
आक्षिप्तसंपातमपेतशोभम् उद्वह्नि धूमाकुलदिग्विभागम् ।
वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥
आक्षिप्ता चामरश्रीः प्रसभमपहृतः पौण्डरीको विलासः प्रच्छन्नो वीरकम्बुः समजनि विहितः कण्ठभाराय हारः ।
लुप्तो हासप्रकाशः कमपि परिभवं प्रापितः पुष्पराशिश् चन्द्राभैर्यद्यशोभिः प्रतिधरणिभुजां निह्नुता किं च कीर्तिः ॥
आक्षिप्तैः प्रतिपक्षभूमिपतिभिः क्रुद्धेन देव त्वया वित्रस्तैर्न महायुधानि विविधान्याविष्क्रियन्ते युधि ।
दूरावर्जितमौलयस्तव पुरस्तन्वन्ति ते केवलं नानाकारकिरीटरत्ननिकरैरिन्द्रायुधानि क्षितौ ॥
आक्षेपचरणलङ्घन- केशग्रहकेलिकुतुकतरलेन ।
स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनुः ॥
आक्षेपवचनं तस्य न वक्तव्यं कदाचन ।
अनुकूलं प्रियं चास्य वक्तव्यं जनसंसदि ॥
आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः ।
भेकः पारं यियासुर्भुजगमपि महाघस्मरस्याम्बुराशेः प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा ॥
आखुना भक्षितस्याथ नामोच्चार्य समुद्धरेत् ।
मार्गधूलिं क्षिपेद् दूरं तस्य शीघ्रं सुखं भवेत् ॥
आखुभ्यः किं खलैर्ज्ञातं खलेभ्यश्च किमाखुभिः ।
अन्यत् परगृहोत्खातात् कर्म येषां न विद्यते ॥
आखुर्वाञ्छति भस्मसूत्रहरणं व्यालस्तथा मूषकं व्यालं बर्हिरयं हरिश्च वृषभं गङ्गा तथा चन्द्रकम् ।
इत्थं दुःखमहर्निशं शृणु विभो सोढव्यमेतत् कथं शंभोरात्मदशानिबोधनपरं त्वां पातु दीनं वचः ॥
आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् ।
समालापेन यो युङ्क्ते स गच्छति पराभवम् ॥
आखेटकस्य धर्मेण विभवाः स्युर्वशे नृणाम् ।
नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ॥
आख्यातनामरचनाचतुरस्रसंधि- सद्धात्वलंकृतिगुणं सरसं सुवृत्तम् ।
आसेदुषामपि दिवं कविपुंगवानां तिष्ठत्यखण्डमिह काव्यमयं शरीरम् ॥
आख्याते हसितं पितामह इति त्रस्तं कपालीति च व्यावृत्तं गुरुरित्यसौ दहन इत्याविष्कृता भीरुता ।
पौलोमीपतिरित्यसूयितमथ व्रीडावनम्रं श्रिया पायाद् वः पुरुषोत्तमोऽयमिति च न्यस्तः स पुष्पाञ्जलिः ॥
आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् ।
दष्ट इव कृष्णसर्पैः पलायते दानधर्मेभ्यः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0