महासुभाषितसंग्रह · श्लोक 4323-4342
आकौमारं समरजयिना कुर्वतोर्वीमवीराम् एतेनामी कथमिव दिशामीशितारो विमुक्ताः ।
अन्तर्ज्ञातं वपुषि कलया तस्य तेऽष्टौ प्रविष्टाः प्रह्वीभूते प्रभवति नहि क्षत्रियाणां कृपाणः ॥
आ कौमाराद् गुरुचरणशुश्रूषया ब्रह्मविद्या- स्वास्थायास्थामहह, महतीमर्जितं कौशलं यत् ।
निद्राहेतोर्निशि निशि कथाः शृण्वतां पार्थिवानां कालक्षेपौपयिकमिदमप्याः कथं पर्यणंसीत् ॥
आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभिस् तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः ।
अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयोस् तत्किं मामनिशं सखे जलधर त्वं दग्धुमेवोद्यतः ॥
आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं किमतः फलं वा ।
यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥
आक्रम्य यद् द्विजैर्भुक्तं परिक्षीणैश्च बान्धवैः ।
गोभिश्च नृपशार्दूल राजसूयाद् विशिष्यते ॥
आक्रम्य यस्य दोर्दण्डम् अरिचक्रं प्रकाशते ।
प्राप्नोति पुरुषो लोके स वैकुण्ठ इति प्रथाम् ॥
आक्रम्य सर्वः कालेन परलोकं च नीयते ।
कर्मपाशवशो जन्तुस् तत्र का परिदेवना ॥
आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च ।
भोक्ष्यन्ति निरनुक्रोशा रुदतामपि भारत ॥
आक्रम्याजेरग्रिमस्कन्धमुच्चैर् आस्थायाथो वीतशङ्कं शिरश्च ।
हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन् मानभाजः सुखेन ॥
आक्रम्यैकामग्रपादेन जङ्घाम् अन्यामुच्चैराददानः करेण ।
सास्थिस्वानं दारुवद्दारुणात्मा कंचिन्मध्यात् पाटयामास दन्ती ॥
आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां तोयादानं तदपि जलधेर्लोकसंतापशान्त्यै ।
दीर्घा छाया प्रकृतिमहति व्योम्नि चाभोगबन्धो हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय ॥
आक्रान्तं वलिभिः प्रसह्य पलितैरत्यन्तमास्कन्दितं वार्धक्यं श्लथसंधिबन्धनतया निःस्थाम निर्धाम च ।
एतन्मे वपुरस्थिकेवलजरत्कङ्कालमालोकय - - स्थूलशिराकरालपरुषत्वङ्मात्रपात्रीकृतम् ॥
आक्रान्तपूर्वा रभसेन सैनिकैर् दिगङ्गनाव्योमरजोऽभिदूषिता ।
भेरीरवाणां प्रतिशब्दितैर्घनैर् जगर्ज गाढं गुरुमत्सरादिव ॥
आक्रान्तमन्तररिभिर्मदमत्सराद्यैर् गात्रं वलीपलितरोगशतानुविद्धम् ।
दारैः सुतैश्च गृहमावृतमुत्तमर्णैर् मातः कथं भवतु मे मनसः प्रसादः ॥
आक्रान्तासु वसुन्धरासु यवनैरासेतुहेमाचलं विद्राणे क्षितिभृद्गणे विकरुणे निद्राति नारायणे ।
निर्विघ्नप्रसरे कलावपि बलान्निष्कण्टकं वैदिकं पन्थानं किल तत्र तत्र परिपात्येको हि लोकोत्तरः ॥
आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूर्च्छां विषैः ।
बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ॥
आक्रान्ते शैशवेऽस्मिन्नभिनववयसा शासनान्मीनकेतोर् बालाया नेत्रयुग्मं श्रुतियुगमविशद् भ्रूयुगेनापि सार्धम् ।
वक्षोजद्वन्द्वमुच्चैर्बहिरिह निरगाच्छ्रोणबिम्बेन साकं मध्यः संगृह्य बद्धस्त्रिवलिभिरभितः कार्श्यमङ्गीकरोति ॥
आक्रामन्तु तमेव चूतमपि च क्रोशन्तु रेफोत्तरं डिम्भोऽस्माकमपीति वाभिदधतां काका वराकाः स्वयम् ।
गन्तव्यं क्व ततोऽन्यतः परभृत क्षन्तव्यमेतावदप्य् अग्रे कस्य निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ॥
आक्रुश्यमानो नाक्रोशेन् मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥
आक्रुष्टोऽपि व्रजति न रुषं भाषते नापभाष्यं नोत्कृष्टोऽपि प्रवहति मदं शौर्यधैर्यादिधर्मैः ।
यो यातोऽपि व्यसनमनिशं कातरत्वं न याति सन्तः प्राहुस्तमिह सुजनं तत्त्वबुद्ध्या विवेच्य ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0