भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4303-4322

4303

आकुञ्च्याग्रं नखविलिखने पश्यति भ्रूविभङ्ग्या गाढाश्लेषे वदति च ह हा मुञ्च मुञ्चेति वाचम् ।
केशाकृष्टावरुणनयना ताडने साश्रुनेत्रा नानाभावं श्रयति तरुणी नाटके मन्मथस्य ॥

4304

आकुब्जीकृतपृष्ठमुन्नतवलद्वक्त्राग्रपुच्छं भयाद् अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् ।
लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालाननः श्वा निःश्वासनिरोधपीवरगलो मार्जारमास्कन्दति ॥

4305

आकुमारमुपदेष्टुमिच्छवः संनिवृत्तिमपथान्महापदः ।
योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥

4306

आकुलश्चलपतत्रिकुलानाम् आरवैरनुदितौषसरागः ।
आययावहरिदश्वविपाण्डुस् तुल्यतां दिनमुखेन दिनान्तः ॥

4307

आकृतिप्रेमसरसा विलासालसगामिनी ।
विसारे हन्त संसारे सारं सारङ्गलोचना ॥

4308

आकृतेः किंचिदुल्लेखो विभावयति लक्षणम् ।
महतोपप्लवेनेव पीडितं चन्द्रमण्डलम् ॥

4309

आकृष्टः शिखया नखैर्विलिखितः स्पृष्टः कपोलस्थले मौलौ दामभिराहतः प्रतिदिशं क्रामन् सलीलं पथि ।
इत्थं वारविलासिनीकृतपरीहासस्य दैत्याध्वरे विष्णोर्वामनवेषविभ्रमभृतो हासोर्मयः पान्तु वः ॥

4310

आकृष्टकरवालोऽसौ संपराये परिभ्रमन् ।
प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ॥

4311

आकृष्टप्रतनुवपुर्लतैस्तरद्भिस् तस्याम्भस् तदथ सरोमहार्णवस्य ।
अक्षोभि प्रसृतविलोलबाहुपक्षैर् योषाणामुरुभिरुरोजगण्डशैलैः ॥

4312

आकृष्टश्चक्रवाकैर्नयनकलनया बन्धकीभिर्निरस्तो नास्तं द्रागेति भानुर्निवसति नलिनीबोधनिद्रान्तराले ।
सन्ध्यादीपप्ररोहं बहुलतिलरसव्याप्तपत्रान्तरालं वासागारे दिशन्ती हसति नववधूक्रोधदृष्टा भुजिष्या ॥

4313

आकृष्टिः कृतचेतसां सुमहतामुच्चाटनं चांहसाम् आचण्डालममूकलोकसुलभो वश्यश्च मोक्षश्रियः ।
नो दीक्षां न च दक्षिणां न च पुरश्चर्यां मनागीक्षते मन्त्रोऽयं रसानास्पृगेव फलति श्रीकृष्णनामात्मकः ॥

4314

आकृष्टिभग्नकटकं केन तव प्रकृतिकोमलं सुभगे ।
धन्येन भुजमृणालं ग्राह्यं मदनस्य राज्यमिव ॥

4315

आकृष्टे कवचादहीन्द्ररसनाकल्पे कृपाणे त्वया श्रीमन्नायक रामचन्द्र भवतः प्रत्यर्थिनां वेश्मसु ।
गाहन्ते सहसा लुलायचमरीशार्दूलशाखाचरी- यक्षोरक्षशृगालकोलशलभृद्भल्लूकभिल्लादयः ॥

4316

आकृष्टे युधि कार्मुके रघुपतेर्वामोऽब्रवीद् दक्षिणं दानादानसुभोजनेषु पुरतो युक्तं किमित्थं तव ।
कामान्यः पुनरब्रवीन्मम न भीः प्रष्टुं जगत्स्वामिनं छेत्तुं रावणवक्त्रपंक्तिमिति यो दद्यात् स वो मंगलम् ॥

4317

आकृष्टे युधि कार्मुके समवदद् वामः करो दक्षिणं रे रे दक्षिणहस्त भोजनमहादानादि ते कुर्वतः ।
पश्चाद् गंन्तुमयुक्तमित्यथ पुनः सोऽप्यब्रवीदद्रवं प्रष्टुं राघवमाशुरावणशिरोवृन्दानि भिन्दानि किम् ॥

4318

आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति ।
बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णः स पुष्णातु नः ॥

4319

आकृष्यन्ते करिणः पङ्कनिमग्ना महद्विपैरेव ।
प्राप्तापदो महान्त उद्धरणीया महापुंभिः ॥

4320

आकृष्यादावमन्दग्रहमलकचयं वक्त्रमासज्य वक्त्रे कण्ठे लग्नः सुकण्ठः पुनरपि कुचयोर्दत्तगाढाङ्गसङ्गः ।
बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक् प्रियो मे बाले लज्जा प्रणष्टा नहि नहि कुटिले चोलकः किं त्रपाकृत् ॥

4321

आ केशग्रहणान्मित्रम् अकार्यात् संनिवर्तयन् ।
अवाच्यः कस्यचिद् भवति कृतयत्नो यथाबलम् ॥

4322

आकोपितोऽपि कुलजो न वदत्यवाच्यं निष्पीडितो मधुरमेव वमेत् किलेक्षुः ।
नीचो जनो गुणशतैरपि सेव्यमानो हास्येषु यद् वदति तत् कलहेष्ववाच्यम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc