भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4283-4302

4283

आकाशमुत्पततु गच्छतु वा दिगन्तम् अम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् ।
जन्मान्तरार्जितशुभाशुभकृन्नराणाम् छायेव न त्यजति कर्मफलानुबन्धः ॥

4284

आकाशयानतटकोटिकृतैकपादास् तद्धेमदण्डयुगलान्यवलम्ब्य हस्तैः ।
कौतूहलात् तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि ॥

4285

आकाशवापीसितपुण्डरीकं शाणोपलं मन्मथसायकानाम् ।
पश्योदितं शारदमुत्पलाक्षि संध्याङ्गनाकन्दुकमिन्दुबिंबम् ॥

4286

आकाशश्यामिमानं जलधरघटनां वा दधानं सुधांशुं नूनं मन्ये प्रियास्यं शिरसि शिरसिजैराहितापूर्वशोभम् ।
यद्दृष्ट्वा हन्त हर्षं मनसि कलयसे ज्ञानशान्त्यादिभव्या- रामोर्वीजच्छिदायै निशिततरमसिं तं महान्तो ब्रुवन्ति ॥

4287

आकाशसौधमधिरुह्य दिगङ्गनानाम् अङ्गेषु निक्षिपति काम्यमिवाङ्गरागम् ।
तारावरोधवलितो ललितात्मजश्रीर् ज्योत्स्नाच्छलेन मुदिताखिललोक इन्दुः ॥

4288

आकाशसौधे शशिसंपटस्थं तमालनीलं शिवलिङ्गमुच्चैः ।
सिद्धाङ्गनेयं रजनी सकामा नक्षत्ररत्नैः परिपूजतीव ॥

4289

आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥

4290

आकाशात् पतितं पुनर्जलनिधौ मध्ये चिरं संस्थितं पश्चाद् दुःसहदेहरन्ध्रजनितक्लेशान्वितं मौक्तिकम् ।
बाले बालकुरङ्गलोचनयुगे घोरं तपः संचरन् नासाभूषणतामुपैति सखि ते बिम्बाधरापेक्षया ॥

4291

आकाशे नटनं सरोरुहयुगे मञ्जीरमञ्जुध्वनिः शीतांशौ कलकूजितं किसलये पीयूषपानोत्सवः ।
स्वर्गक्षोणिधरे नखात् परिभवो ध्वान्ते कराकर्षणं रम्भायां रसनारवस्तरुणयोः पुण्यानि मन्यामहे ॥

4292

आकाशे पश्य नेमा निबिडघनघटाः संभृताग्नेयचूर्णा मञ्जूषा भान्ति तासामुपरि सुरधनुः कैतवात् केतवोऽमी ।
विद्युन्नो नालयन्त्रश्रुतिमुखनिपतद्दीप्तवर्त्तिप्रकाशः सैन्यं मारस्य मन्ये स्फुरति विमथितुं मानिनी मानदुर्गम् ॥

4293

आकिंचन्यं च राज्यं च तुलया समतोलयम् ।
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥

4294

आकिंचन्यं सुखं लोके पथ्यं शिवमनामयम् ।
अनमित्रमथो ह्येतद् दुर्लभं सुलभं सताम् ॥

4295

आकिंचन्यं सुसंतोषो निराशीष्ट्वमचापलम् ।
एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥

4296

आकिंचन्यादतिपरिचयाज्जाययोपेक्ष्यमाणो भूपालानामननुसरणाद् बिभ्यदेवाखिलेभ्यः ।
गेहे तिष्ठन् कुमतिरलसः कूपकूर्मैः सधर्मा किं जानीते भुवनचरितं किं सुखं चोपभुङ्क्ते ॥

4297

आकिंचन्ये च राज्ये च विशेषः सुमहानयम् ।
नित्योद्विग्नो हि धनवान् मृत्योरास्यगतो यथा ॥

4298

आकीर्णः शोभते राजा न विविक्तः कदाचन ।
ये तं विविक्तमिच्छन्ति ते तस्य रिपवः स्मृताः ॥

4299

आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः ।
तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥

4300

आकुञ्चितैकजङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।
सुतनोः श्वसितक्रमनमदृ- उदरस्फुटनाभि शयनमिदम् ॥

4301

आकुञ्चितोरू द्वौ यत्र जानुभ्यां धरणिं गतौ ।
दर्दुरक्रममित्याहुः स्थानकं दृढभेदने ॥

4302

आकुञ्च्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे ।
तारस्वनं प्रथितथूत्कमदात् प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc