महासुभाषितसंग्रह · श्लोक 4263-4282
आकारवेषसौभाग्यैः कन्दर्पप्रतिमोऽपि सन् ।
यासां संगममासाद्य प्राप्तः को वा न वञ्चनाम् ॥
आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् ।
बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥
आकारसंवृतिः कार्या सुरक्तेनापि कामिना ।
रक्तः परिभवं याति परिभूतः कथं प्रियः ॥
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ आरम्भसदृशोऽदयः ॥
आकारालापसंभोगैर् यदीयैर्लज्जते जनः ।
अहो वक्रोद्धुरग्रीवस् तैरेव करभोऽधमः ॥
आकाराहीनकान्तिर्निधनविरहितो योगदोल्लासभागी विक्रान्तो विश्वतुल्यः कमलकलितदृग्विभ्रमोत्कृष्टमूर्तिः ।
नानाशापूर्णकीर्तिः सुखरसमयितो वारणाक्रान्तदेहो यादृग्देव त्वमेवं भवतु रिपुगणोऽप्यादिवर्णप्रलोपात् ॥
आकारेण तथा गत्या चेष्टया भाषितैरपि ।
नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्हितं मनः ॥
आकारेण नरेण वानरयुवा वाहेन वालेयको व्याघ्रेणैवरथो (?) गवापि गवयः सिंहेन कौलेयकः ।
श्यामाङ्गेन पिकेन काक इति [च] स्पर्धानुबद्धादरा यद्यप्यत्र तथापि तद्गुणगणस्यांशं लभन्ते न ते ॥
आकारेण शशी गिरा परभृतः पारावतश्चुम्बने हंसश्चङ्क्रमणे समं दयितया रत्या विमर्दे गजः ।
इत्थं भर्तरि मे समस्तयुवतिश्लाघ्यैर्गुणैः सेविते क्षुण्णं नास्ति विवाहितः पतिरिति स्यान्नैष दोषो यदि ॥
आकारेणैव चतुरास् तर्कयन्ति परेङ्गितम् ।
गर्भस्थं केतकीपुष्पम् आमोदेनेव षट्पदाः ॥
आकारे मदनः सुकाव्यरचनाचातुर्ययुक्तौ गुरुः षड्भाषास्वपि दृश्यते व्यसनिता तं दृष्टवत्यः स्त्रियः ।
स्वप्राणेश्वरसङ्गमं सुखकरं हित्वा न जीवन्त्यहो तस्यान्ते क्रियतेऽनया तनययाभ्यासः कलानां कथम् ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥
आकारैर्न विदन्ति वक्रफणितीर्बोद्धुं न मेधाविनः शब्दाख्येयनिजाशयं कुलवधूवर्गस्य नैतद् व्रतम् ।
ग्रामेऽस्मिन् ऋजुवाच्यवाचकहतात्मानो युवानो जडास् तत्त्वज्ञोपगताध्वगावधिरयं कामज्वरः सह्यताम् ॥
आकारो न मनोहरः श्रवणयोः शल्योपमं कूजितं वक्त्रं विड्विकृतं कृतान्तसमयालम्बीदमालोकितम् ।
क्रीडासंवनने पृथग्जनचिते वासस्तरौ कुत्सिते तत् केनास्तु वराक काक कनकागारे तवावेशनम् ॥
आकाशकुण्डे सतडिद्धुताशे करोति होमं झषकेतुदेवः ।
उच्चाटनायेव वियोगिनीनां यद्गर्जितं सैष हि मन्त्रपाठः ॥
आकाशतः पतितमेत्य नदादिमध्यं तत्रापि धावनसमुत्थमलावलिप्तम् ।
नानाविधावनिगताशुचिपूर्णमर्णो यत्तेन शुद्धिमुपयाति कथं शरीरम् ॥
आकाशदेशात् परिपातुकानि लङ्केशशीर्षाणि सकुन्तलानि ।
क्षणं नभः प्रांशुमहीरुहस्य शिक्याश्रितानीव फलानि रेजुः ॥
आकाशधारणां कुर्वन् मृत्युं जयति निश्चितम् ।
यत्र तत्र स्थितो वापि सुखमत्यन्तमश्नुते ॥
आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वी भव प्रत्यक्षीकृतमादिराजयशसां युष्माभिरुज्जृम्भितम् ।
श्रीमुद्दाफरशाहपार्थिवयशोराशेः समुज्जृम्भणाद् बीजोच्छ्वासविदीर्णदाडिमदशां ब्रह्माण्डमारोक्ष्यति ॥
आकाशमानसविगाहनराजहंसं नारीजनग्रहिलतानलिनीमहेभम् ।
आघ्रायमानरतिनायकसंप्रदाय- दीक्षागुरुं दृशि निवेशय सुन्दरीन्दुम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0