महासुभाषितसंग्रह · श्लोक 4183-4202
अहो येषां वरं जन्म सर्वप्राण्युपजीवनम् ।
सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥
अहो रघुशिरोमणेरभिनवप्रतापावलि- प्रचण्डकिरणप्रथाप्रसरसाध्वसादाश्वयम् ।
सुराधिपतिरम्बुदान् कमलमिन्दिरा सेवते हिमांशुरपि चन्द्रमाः सततमम्भुधौ मज्जति ॥
अहोरात्रमये लोके जरारूपेण संचरन् ।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।
आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥
अहोरात्रे विभजते सूर्यो मानुषदैविके ।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥
अहो रूपमहो रूपम् अहो मुखमहो मुखम् ।
अहो मध्यमहो मध्यम् अस्याः सारङ्गचक्षुषः ॥
अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।
परेऽनुजीवत्यपरस्य या मृतिर् विपर्ययश्चेत्त्वमसि ध्रुवः परः ॥
न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः ।
यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥
अहो विधात्रा हतकेन नार्थात् कृतो वियोगोऽपि वियोगिनां नः ।
रथाङ्गनाम्नामिव येन सीमा न विद्यते नापि सपक्षवत्त्वम् ॥
अहो विशालं भूपाल भुवनत्रितयोदरम् ।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥
अहो विषादप्यधिकाः स्त्रियो रक्तविमानिताः ।
अहो असेव्याः साधूनां राजानोऽतत्त्वदर्शिनः ॥
अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते ।
गुणोऽपि क्लेशहेतुः स्याद् विश्रान्तः कण्ठकन्दले ॥
अहो संसारवैरस्यं वैरस्यकारणं स्त्रियः ।
दोलालोला च कमला रोगाभोगगेहं देहम् ॥
अहो संसृतिवेश्येयं रागाद्युद्दीपनोद्यता ।
रसमुत्पाद्य सर्वेषाम् अन्ते वैरस्यकारिणी ॥
अहो सत्संगतिर्लोके किं पापं न विनाशयेत् ।
न ददाति सुखं किं वा नराणां पुण्यकर्मणाम् ॥
अहो समुद्रगम्भीरधीरचित्तमनस्विनः ।
कृत्वाप्यनन्यसामान्यम् उल्लेखं नोद्गिरन्ति ये ॥
अहो साहजिकं प्रेम दूरादपि विराजते ।
चकोरनयनद्वन्द्वम् आह्लादयति चन्द्रमाः ॥
अहो सुसदृशी वृत्तिस् तुलाकोटेः खलस्य च ।
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ॥
अहो स्त्रीप्रेरणा नाम रजसालङ्घितात्मनाम् ।
पुंसां वात्येव सरसामाशयक्षोभकारिणी ॥
अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते ।
उपेक्षते यः श्लथबन्धलम्बिनीर् जटाः कपोले कलमाग्रपिङ्गलाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0