महासुभाषितसंग्रह · श्लोक 4163-4182
अहो बत खलः पुण्यैर् मूर्खोऽप्यश्रुतपण्डितः ।
स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ॥
अहो बत महत् कष्टं विपरीतमिदं जगत् ।
येनापत्रपते साधुर् असाधुस्तेन तुष्यति ॥
अहो बत विचित्राणि चरितानि महात्मनाम् ।
लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति च ॥
अहो बत सभा सभ्यैर् इयं मौनादधः कृता ।
सन्तो वदन्ति यत्सत्यं सभां न प्रविशन्ति वा ॥
अहो बत सरित्पतेरिदमनार्यरूपं परं यदुज्ज्वलरुचीन् मणीन् सुचिरचर्चितास्थागुणान् ।
जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः क्षपत्यनिशमूर्जितैर्झगिति तन्मयत्वं गतः ॥
अहो बाणस्य संधानं शरदि स्मरभूपतेः ।
अपि सोऽयं त्विषामीशः कन्याराशिमुपागतः ॥
अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया ।
यद्दरिद्रतमो लक्ष्मीम् आश्लिष्टो बिभ्रतोरसि ॥
अहो भवति सादृश्यं मृदङ्गस्य च खलस्य च ।
यावन्मुखगतौ तौ हि तावन्मधुरभाषिणौ ॥
अहो भार्या अहो पुत्रः अहो आत्मा अहो सुखम् ।
अहो माता अहो भ्राता पश्य मायाविमोहितम् ॥
अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ॥
अहो मदावलेपोऽयम् असाराणां दुरात्मनाम् ।
कौरवाणां महीपत्वम् अस्माकं किल कालजम् ॥
अहो महच्चित्रमिदं कालगत्या दुरत्यया ।
आरुरुक्षत्युपानद्वै शिरो मुकुटसेवितम् ॥
अहो महत्त्वं महतामपूर्वं विपत्तिकालेऽपि परोपकारः ।
यथास्यमध्ये पतितोऽपि राहोः कलानिधिः पुण्यचयं ददाति ॥
अहो महीयसां पुंसाम् उपर्युपरि पौरुषम् ।
रामेणाजगवं शंभोर् भग्नमम्भोजनालवत् ॥
अहो मायाजालं हृदयहरिणो यत्र पतितः समुत्थातुं भूयः प्रभवति न किंचित् कथमपि ।
न चेत् तस्य च्छेत्ता परमगुरुवाक्योपनमितो निजात्मज्ञानाखुर्विविधदृढसद्युक्तिदशनैः ॥
अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ॥
क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः ।
कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥
अहो मे सौभाग्यं मम च भवभूतेश्च भणितं घटायामारोप्य प्रतिफलति तस्यां लघिमनि ।
गिरां देवी सद्यः श्रुतिकलितकल्हारकलिका- मधूलीमाधुर्यं क्षिपति परिपूर्त्यै भगवती ॥
अहो मोहः पुंसामिह जगति जातिः किल शुभा जरामृत्युव्याधीनपि जयति या निष्प्रभतया ।
परस्माज्जातानां व्यसनशतमेतेऽपि दधति स्वयं सुत्वा तेभ्यो विदिशति सुतान् सा विशसितुम् ॥
अहो मोहो वराकस्य काकस्य यदसौ पुरः ।
सरीसर्ति नरीनर्ति यदयं शिखिहंसयोः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0