भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4143-4162

4143

अहो दिव्यं चक्षुर्वहसि तव सापि प्रणयिनी पराक्ष्णामग्राह्यं युवतिषु वपुः संक्रमयति ।
समानाभिज्ञानं कथमितरथा पश्यति पुरो भवानेकस्तस्याः प्रतिकृतिमयीरेव रमणीः ॥

4144

अहो दुःखमहोदुःखमहो दुःखं दरिद्रता ।
तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम् ॥

4145

अहो दुरन्ता जगतो विमूढता विलोक्यतां संसृतिदुःखदायिनी ।
सुसाध्यमप्यन्नविधानतस्तपो यतो जनो दुःखकरोऽवमन्यते ॥

4146

अहो दुरन्ता संसारे भोगतृष्णा यया हृताः ।
अनौचित्यादकीर्तेश्च देवा अपि न बिभ्यति ॥

4147

अहो दुर्जसंसर्गान् मानहानिः पदे पदे ।
पावको लोहसङ्गेन मुद्गरैरभिहन्यते ॥

4148

अहो दुर्जनसर्पस्य सर्पस्य महदन्तरम् ।
कर्णमन्यस्य दशति अन्यः प्राणैर्वियुज्यते ॥

4149

अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः ।
यन्नोपकुर्यादस्वार्थैर् मर्त्यः स्वज्ञातिविग्रहैः ॥

4150

अहो धनमदान्धस्तु पश्यन्नपि न पश्यति ।
यदि पश्यत्यात्महितं स पश्यति न संशयः ॥

4151

अहो धनानां महती विदग्धता सुखोषितानां कृपणस्य वेश्मनि ।
व्रजन्ति न त्यागदशां न भोग्यतां परां च कांचित् प्रथयन्ति निर्वृतिम् ॥

4152

अहो धनुषि नैपुण्यं मन्मथस्य महात्मनः ।
शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः ॥

4153

अहो धात्रा पुरः सृष्टं साहसं तदनु स्त्रियः ।
नैतासां दुष्करं किंचिन् निसर्गादिह विद्यते ॥

4154

अहो धार्ष्ट्यमसाधूनां निन्दतामनघाः स्त्रियः ।
मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पताम् ॥

4155

अहो नक्षत्रराजस्य साभिमानं विचेष्टितम् ।
परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ॥

4156

अहो नु कष्टं सततं प्रवासम् ततोऽतिकष्टः परगेहवासः ।
कष्टाधिका नीचजनस्य सेवा ततोऽतिकष्टा धनहीनता च ॥

4157

अहो नु चित्रं पद्मोत्थैर् बद्धास्तन्तुभिरद्रयः ।
अविद्यमाना याविद्या तया सर्वे वशीकृताः ॥

4158

अहो पूर्णं सरः स्पष्टम् असि नात्र विचारणा ।
लुठन्तस्त्वयि यत् सर्वे स्नान्ति जातु कथंचन ॥

4159

अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च ।
मधुरैः कोपमायाति कटुकैर् उपशाम्यति ॥

4160

अहो प्रच्छादिताकार्यनैपुण्यं परमं खले ।
यत्तुषाग्निरिवानर्चिर् दहन्नपि न लक्ष्यते ॥

4161

अहो प्रभावो वाग्देव्या यन्मातंगदिवाकरः ।
श्रीहर्षस्याभवत् सभ्यः समो बाणमयूरयोः ॥

4162

अहो प्रमादी भगवान् प्रजापतिः कृशातिमध्या घटिता मृगेक्षणा ।
यदि प्रमादादनिलेन भज्यते कथं पुनः शक्ष्यति कर्तुमीदृशम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc