भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4123-4142

4123

अहो अहं नमो मह्यं यदहं वीक्षितोऽनया ।
बालया त्रस्तसारङ्गचपलायतनेत्रया ॥

4124

अहो अहीनामपि लेहनं स्याद् दुःखानि नूनं नृपसेवनानि ।
एकोऽहिना दष्टमुपैति मृत्युं क्ष्मापेन दष्टस्तु सगोत्रमित्रः ॥

4125

अहो अहोभिर्न कलेर्विदूयते सुधासुधारामधुरं पदे पदे ।
दिने दिने चन्दनचन्द्रशीतलं यशो यशो दातनयस्य गीयते ॥

4126

अहो अहोभिर्महिमा हिमागमे- ऽप्यभिप्रपेदे प्रति तां स्मरार्दिताम् ।
तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्विभरांबभूविरे ॥

4127

अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् ।
असंबद्धा गिरो रूक्षाः कः सहेतानुशासिता ॥

4128

अहो कथमसीमेदं हिमनाम विजृम्भते ।
चरत्येव सहस्रांशौ धवलं तिमिरान्तरम् ॥

4129

अहो कनकमाहात्म्यं वक्तुं केनापि शक्यते ।
नामसाम्यादहो चित्रं धत्तूरोऽपि मदप्रदः ॥

4130

अहो कालस्य सूक्ष्मोऽयं कोऽप्यलक्ष्यक्रमः क्रमः ।
यत्पाकपरिणामेन सर्वं यात्यन्यरूपताम् ॥

4131

अहो किमपि ते शुद्धं यशःकुसुममुद्गतम् ।
यस्यायममृतस्यन्दी बालेन्दुर्बाह्यपल्लवः ॥

4132

अहो कुटिलबुद्धीनां दुर्ग्राह्यमसतां मनः ।
अन्यद्वचसि कण्ठेऽन्यद् अन्यदोष्ठपुटे स्थितम् ॥

4133

अहो केनेदृशी बुद्धिर् दारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर् न तु दारुमयी क्वचित् ॥

4134

अहो खलभुजंगस्य विचित्रोऽयं वधक्रमः ।
अन्यस्य दशति श्रोत्रम् अन्यः प्राणैर्वियुज्यते ॥

4135

अहो खलभुजंगस्य विपरीतो वधक्रमः ।
कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ॥

4136

अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले ।
दारिद्र्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ॥

4137

अहो गुणानां प्राप्त्यर्थं यतन्ते बहुधा नरः ।
मुक्ता यदर्थं भग्नास्या इतरेषां च का कथा ॥

4138

अहो तम इवेदं स्यान् न प्रज्ञायेत किंचन ।
राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी ॥

4139

अहोऽतिनिर्मोहि जनस्य चित्रं परं चरित्रं गदितुं न योग्यम् ।
मुखे हि चान्यद्धृदि भावमन्यत् देवो न जानाति कुतो मनुष्यः ॥

4140

अहोऽतिबलवद्दैवं विना तेन महात्मना ।
यदसामर्थ्ययुक्तेऽपि नीचवर्गे जयप्रदम् ॥

4141

अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति विवशानां शमधनम् ।
विपद्दीक्षादक्षासहतरलतारैः प्रणयिनी- कटाक्षैः कूटाक्षैः कपटकुटिलैः कामकितवः ॥

4142

अहो दानमहो वीर्यम् अहो धैर्यमखण्डितम् ।
उदारवीरधीराणां हरिश्चन्द्रो निदर्शनम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc