महासुभाषितसंग्रह · श्लोक 4103-4122
अहिते प्रतिषेधश्च हिते चानुप्रवर्तनम् ।
व्यसने चापरित्यागस् त्रिविधं मित्रलक्षणम् ॥
अहिते हितबुद्धिरल्पधीर् अवमन्येत मतानि मन्त्रिणाम् ।
चपलः सहसैव संपतन्न् अरिखङ्गाभिहतः प्रबुध्यते ॥
अहिते हितमिच्छन्ति निसर्गात् सरसास्तु ये ।
पीडितोऽपीक्षुदण्डो हि रसमेव ददात्यरम् ॥
अहिभवनविधानान्यायुधीकृत्य शैलान् अमरजयिनि सैन्ये रक्षसामात्तकक्ष्ये ।
कथमिव रणभूमौ वर्तते वानराणाम् उपवनतरुवल्लीपल्लवोन्माथि यूथम् ॥
अहिभूषणोऽप्यभयदः सुकलितहालाहलोऽपि यो नित्यः ।
दिग्वसनोऽप्यखिलेशस् तं शशधरशेखरं वन्दे ॥
अहिरण्यमदासीकं गृहं गोरसवर्जितम् ।
प्रतिकूलकलत्रं च नरकस्यापरो विधिः ॥
अहिरहिरिति संभ्रमपदम् इतरजनः किमपि कातरो भवतु ।
विहगपतेराहारः स तु सरलमृणालदलरुचिरः ॥
अहिराजः पुरुषेऽस्मिन् धूम्रा धात्री कुलत्थवर्णोऽश्मा ।
माहेन्द्री वहति शिरा भवति सफेनं सदा तोयम् ॥
अहिरिपुपतिकान्तातातसंबद्धकान्ता- हरतनयनिहन्तृप्राणदातृध्वजस्य ।
सखिसुतसुतकान्तातातसम्पूज्यकान्ता- पितृशिरसि पतन्ती जाह्नवी नः पुनातु ॥
अहिरिव जनयोगं सर्वदा वर्जयेद् यः कुणमिव वसु नारीं त्यक्तकामो विरागी ।
विषमिव विषयार्थान् मन्यमानो दुरन्ताञ् जयति परमहंसो मुक्तिभावं समेति ॥
अहिर्बिडालो जामाता एडका च सपुत्रिणी ।
आत्मभाग्यं न पश्यन्ति भागिनेयस्तु पञ्चमः ॥
अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह ।
परार्थं देशकाले च ब्रूयाद् धर्मार्थसंहितम् ॥
अहीनभुजगाधीशवपुर्वलयकङ्कणम् ।
शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् ॥
वृषपुंगवलक्ष्माणं शिखिपावकलोचनम् ।
ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥
अहीन्द्रान् पातालाद् विषमिव निमज्ज्योद्धरति यः य आरुह्य स्वर्गं कवलयति सेन्द्रान् सुरगणान् ।
महीं भ्रान्त्वा भ्रान्त्वा रघुनलनृपा येन विजिताः स मृत्युः कालं न क्षमत इति मा कार्ष्ट मनसि ॥
अहृतहृदयाः सन्तः सत्यं ब्रवीमि निशम्यतां विपिनमधुना गत्वा वासो मृगैः सह कल्प्यताम् ।
सुजनचरितध्वंसिन्यस्मिन् खलोदयशालिनि प्रभवति कलौ नायं कालो गृहेषु भवादृशाम् ॥
अहेतुः पक्षपातो यस् तस्य नास्ति प्रतिक्रिया ।
स हि स्नेहात्मकस्तन्तुर् अन्तर्भूतानि सीव्यति ॥
अहेतु भ्रूकुटिं नैव सदा कुर्वीत पार्थिवः ।
विना दोषेण यो भृत्यान् राजा धर्मेण पालयेत् ॥
अहेरिव गुणाद्भीतो मिष्टान्नाद्या विषादिव ।
राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति ॥
अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् ।
अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0