महासुभाषितसंग्रह · श्लोक 4083-4102
अहिंसा परमो धर्मस् तथाहिंसा परो दमः ।
अहिंसा परमं दानम् अहिंसा परमं तपः ॥
अहिंसा परमो यज्ञस् तथाहिंसा परं बलम् ।
अहिंसा परमं मित्रम् अहिंसा परमं सुखम् ।
अहिंसा परमं सत्यम् अहिंसा परमं श्रुतम् ॥
अहिंसा परमो धर्मो ह्यहिंसैव परं तपः ।
अहिंसा परमं दानम् इत्याहुर्मुनयः सदा ॥
अहिंसापूर्वको धर्मो यस्मात् सर्वहिते रतः ।
यूकामत्कुणदंशादींस् तस्मात् तानपि रक्षयेत् ॥
अहिंसा प्रथमं पुष्पं द्वितीयेन्द्रियनिग्रहम् ।
तृतीयं तु दया पुष्पं तुरीयं दानपुष्पकम् ॥
अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ।
पञ्चस्वेतेषु वाक्येषु सर्वे धर्माः प्रतिष्ठिताः ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहः ।
इष्टानिष्टपरा चिन्ता यम एष प्रकीर्तितः ॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥
अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् ।
शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ॥
अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् ।
क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ॥
अहिंसा सत्यवचनम् आनृशंस्यं दमो घृणा ।
एतत् तपो विदुर्धीरा न शरीरस्य शोषणम् ॥
अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।
वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥
अहिंसासूनृतास्तेयब्रह्माकिंचनतारतम् ।
सुपात्रं मुनिभिः प्रोक्तं राजद्वेषविवर्जितम् ॥
अहिंस्रस्य तपोऽक्षय्यम् अहिंस्रो यजते सदा ।
अहिंस्रः सर्वभूतानां यथा माता यथा पिता ॥
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ॥
अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य ।
उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः ॥
अहितात् प्रतिषेधश्च हिते चानुप्रवर्तनम् ।
व्यसने चापरित्यागस् त्रिविधं मित्रलक्षणम् ॥
अहितादनपत्रपस्त्रसन्न् अतिमात्रोज्झितभीरनास्तिकः ।
विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः ॥
अहितुण्डिकदृष्टीनाम् अशेषा भोगिनः पदम् ।
न संवर्ताग्निसारथ्ये स्थाता यन्मुखमारुतः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0