महासुभाषितसंग्रह · श्लोक 4063-4082
अहमेव मतो महीपतेर् इति सर्वः प्रकृतिष्वचिन्तयत् ।
उदधेरिव निम्नगाशतेष्व् अभवन्नास्य विमानना क्वचित् ॥
अहरन् कस्यचिद् द्रव्यं यो नरः सुखमावसेत् ।
सर्वतः शङ्कितः स्तेनो मृगोग्राममिवागतः ॥
अहर्निशं जागरणोद्यतो जनः श्रमं विधत्ते विषयेच्छया यथा ।
तपःश्रमं चेत् कुरुते तथा क्षणं किमश्नुतेऽनन्तसुखं न पावनम् ॥
अहर्निशा वेति रताय पृच्छति क्रमोष्णशीतान्नकरार्पणाद् विटे ।
ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त संध्यामधुरेऽधरेऽङ्गुलिम् ॥
अहल्याकेलिकालेऽभूत् कन्दर्पाणां शतद्वयम् ।
तत्पञ्चबाणभिन्नाक्षः सहस्राक्षोऽन्धतां गतः ॥
अहस्तानि सहस्तानाम् अपदानि चतुष्पदाम् ।
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥
अहह कर्मकरीयति भूपतिं नरपतीयति कर्मकरं नरः ।
जलनिधीयति कूपमपां निधिं गतजलीयति मद्यमदाकुलः ॥
अहह किमधुना मुधैव बध्नास्य् अनुचितकारिणि कर्णदन्तपत्रम् ।
ननु तव चटुलभ्रु कर्णपालिर् भुवनविलोचनकालसारपाशः ॥
अहह गृही क्व नु कुशली बद्धः संसारसागरे क्षिप्तः ।
कथमपि लभते पोतं तेनापि निमज्जति नितान्तम् ॥
अहह चण्ड समीरण दारुणं किमिदमाचरितं चरितं त्वया ।
यदिह चातकचञ्चुपुटोदरे पतति वारि तदेव निवारितम् ॥
अहह नयने मिथ्यादृग्वत् सदीक्षणवर्जिते श्रवणयुगलं दुष्पुत्रो वा श्र्णोति न भाषितम् ।
स्खलति चरणद्वन्द्वं मार्गे मदाकुललोकवद् वपुषि जरसा जीर्णे वर्णो व्यपैति कलत्रवत् ॥
अहह सहजमोहा देहगेहप्रपञ्चे नवरतमतिमग्ना कामिनीविग्रहाप्तिः ।
तदहमिह विहर्तुं संततामोदमुग्धा स्वहितमहितकृत्यं हन्त नान्तः स्मरामि ॥
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी ।
सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् ॥
अहापयन् नृपः कालं भृत्यानामनुवर्तिनाम् ।
कर्मणामानुरूप्येण वृत्तिं समनुकल्पयेत् ॥
अहार्यः सर्वमध्यस्थः काञ्चनद्युतिमुद्वहन् ।
सत्प्रदक्षिणयोग्यत्वम् उपयाति महोन्नतः ॥
अहार्येण कदाप्यन्यैर् असंहार्येण केनचित् ।
तितिक्षाकवचेनैव सर्वं जयति संवृतः ॥
अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा ।
परश्वानं च मूर्खं च सप्त सुप्तान् न बोधयेत् ॥
अहिंसयैव भूतानां कार्यं श्रेयोऽमुशासनम् ।
वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥
अहिंसा धाम धर्मस्य दुःखस्यायतनं स्पृहा ।
सङ्गत्यागः पदं मुक्तेर् योगाभ्यासः पदं शुचः ॥
अहिंसा परमो धर्मः अहिंसा परमा गतिः ।
अहिंसा परमा प्रीतिस् त्वहिंसा परमं पदम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0