भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4043-4062

4043

अहं रथाङ्गनामेव प्रिया सहचरीव मे ।
अननुज्ञातसंपर्का धारिणी रजनीव नौ ॥

4044

अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः ।
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥

4045

अहं सदा प्राणसमं महीभुजाम् अयं तु मां वेत्ति नृपस्तृणोपमम् ।
इतीव कर्णेषु सुवर्णमर्थिनां स्वखेदमाख्यातुमभूत् कृतास्पदम् ॥

4046

अहं हि संमतो राज्ञो य एवं मन्यते कुधीः ।
बलीवर्दः स विज्ञेयो विषाणपरिवर्जितः ॥

4047

अहन्यहनि बोद्धव्यं किमद्य सुकृतं कृतम् ।
दत्तं वा दापितं वापि वाक्साह्यमपि वाक्कृतम् ॥

4048

अहन्यहनि भूतानि गच्छन्ति चरमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतःपरम् ॥

4049

अहन्यहनि भूतानि सृजत्येव प्रजापतिः ।
अद्यापि न सृजत्येकं योऽर्थिनं नावमन्यते ॥

4050

अहन्यहनि याचन्तं कोऽवमन्येद् गुरुं यथा ।
मार्जनं दर्पणस्येव यः करोति दिने दिने ॥

4051

अहन्यहन्यात्मन एव तावज् ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा प्रयातीत्य् अशेषतो वेदितुमस्ति शक्तिः ॥

4052

अहमपि परेऽपि कवयस् तथापि महदन्तरं परिज्ञेयम् ।
ऐक्यं रलयोर्यद्यपि तत् किं करभायते कलभः ॥

4053

अहमस्मि नीलकण्ठस् तव खलु तुष्यामि शब्दमात्रेण ।
नाहं जलधर भवतश् चातक इव जीवनं याचे ॥

4054

अहमहमिकाबद्धोत्साहं रतोत्सवशंसिनि प्रसरति मुहुः प्रौढस्त्रीणां कथामृतदुर्दिने ।
कलितपुलका सद्यः स्तोकोद्गतस्तनकोरके वलयति शनैर्बाला वक्षःस्थले तरलां दृशम् ॥

4055

अहमिव दिनलक्ष्मीः प्रोषितप्राणनाथा त्वमिव पथिक पन्था मुक्तपान्थानुबन्धः ।
अयमपि परदेशः सोऽपि यत्रासि गन्ता मदनमधुरमूर्ते किं वृथा सत्वरोऽसि ॥

4056

अहमिव शून्यमरण्यं वयमिव तनुतां गतानि तोयानि ।
अस्माकमिवोच्छ्वासा दिवसा दीर्घाश्च तप्ताश्च ॥

4057

अहमिह कृतविद्यो वेदिता सत्कलानां धनपतिरहमेको रूपलावण्ययुक्तः ।
इति कृतगुरुगर्वः खिद्यते किं जनोऽयं कतिपयदिनमध्ये सर्वमेतन्न किंचित् ॥

4058

अहमिह स्थितवत्यपि तावकी त्वमपि तत्र वसन्नपि मामकः ।
न तनुसंगतमार्य सुसंगतं हृदयसंगतमेव सुसंगतम् ॥

4059

अहमेको न मे कश्चिन् नाहमन्यस्य कस्यचित् ।
न तं पश्यामि यस्याहं न हि सोऽस्ति न यो मम ॥

4060

अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।
चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोभ्यसे दिवि ॥

4061

अहमेव गुरुः सुदारुणानाम् इति हालाहल तात मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥

4062

अहमेव बली न चापर इति बुद्धिः प्रलयंकरी नृणाम् ।
नहि सन्ति महीतले कति प्रबलैर्ये विजिता बलोद्धताः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc