महासुभाषितसंग्रह · श्लोक 4023-4042
अस्रस्रोतस्तरङ्गभ्रमिषु तरलिता मांसपङ्के लुठन्तः स्थूलास्थिग्रन्थिभङ्गैर्धवलबिसलताग्रासमाकल्पयन्तः ।
मायासिंहस्य शौरेः स्फुरदरुणहृदम्भोजसंश्लेषभाजः पायासुर्दैत्यवक्षःस्थलकुहरसरोराजहंसा नखा वः ॥
अस्राक्षीन्नवनीलनीरजदलोपान्तातिसूक्ष्मायत- त्वङ्मात्रान्तरितामिषं यदि वपुर्नैतत् प्रजानां पतिः ।
प्रत्यग्रक्षरदस्रविस्रपिशितग्रासग्रहं गृह्णतो गृध्रध्वाङ्क्षवृकांस्तनौ निपततः को वा कथं वारयेत् ॥
अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् ।
विषयेषु च सज्जन्त्यः संस्थाप्य ह्यात्मनो वशे ॥
अस्वाध्यायः पिकानां मदनमखसमारम्भणस्याधिमासो निद्राया जन्मलग्नं किमपि मधुलिहां कोऽपि दुर्भिक्षकालः ।
ऋष्टिर्यात्रोत्सुकानां मलयजमरुतां पान्थकान्ताकृतान्तः प्रालेयोन्मूलमूलं समजनि समयः कश्चिदौत्पातिकोऽयम् ॥
अहंकार क्वापि व्रज वृजिन हे मा त्वमिह भूर् अभूमिर्दर्पाणामहमपसर त्वं पिशुन हे ।
अरे क्रोध स्थानान्तरमनुसरानन्यमनसां त्रिलोकीनाथो नः स्फुरति हृदि देवो हरिरसौ ॥
अहंकारो धियं ब्रूते मैनं सुप्तं प्रबोधय ।
उत्थिते परमानन्दे न त्वं नाहं न वै जगत् ॥
अहं किमम्बा किमभीष्टतापदे तवेति मातुर्धुरि तातपृच्छया ।
प्रलोभ्यतुल्यं प्रवदन्तमर्भकं मुदा हसञ् जिघ्रति मूर्ध्नि पुण्यभाक् ॥
अहंकृतेः परिच्छेदान् अविद्यामचितिं तथा ।
जहि येनोपलब्धिस्ते कापि स्यान्निस्तुलाद्भुता ॥
अहं च त्वं च राजेन्द्र लोकनाथावुभावपि ।
बहुव्रीहिरहं राजन् षष्ठीतत्पुरुषो भवान् ॥
अहं च देवनन्दी च कुशाग्रीयधियावुभौ ।
नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ॥
अहं तनीयानतिकोमलश्च स्तनद्वयं वोढुमलं न तावत् ।
इतीव तत्संवहनार्थमस्या वलित्रयं पुष्यति मध्यभागः ॥
अहं तावन् महाराजे पितृत्वं नोपलक्षये ।
भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥
अहं तेनाहूता किमपि कथयामीति विजने समीपे चासीना सरलहृदयत्वादवहिता ।
ततः कर्णोपान्ते किमपि वदताघ्राय वदनं गृहीत्वा धम्मिल्लं मम सखि निपीतोऽधररसः ॥
अहं न चेत् स्यां मयि दुष्टभावनाम् इमे व्रजेयुर्न निराश्रया जनाः ।
तदेनसा योजयतः परान् स्वयं ममैव युक्ता खलु नन्वपत्रपा ॥
अहं नयनजं वारि निरोढुमपि न क्षमः ।
रामः सीतावियोगार्तो बबन्ध सरितां पतिम् ॥
अहं नश्यामि मानेन मानेन कलहं कृथाः ।
विरोधमेत्य कान्तेन कान्ते न परितप्यते ॥
अहंभावात्ययो जातु सुकरो न कथंचन ।
चेतनायामहम्भावो भौतिक्यां विजितः सकृत् ।
आध्यात्मिक्यां पुनश्चैष स्फीतः स्फुरति नोऽग्रतः ॥
अहं ममेत्येव भवस्य बीजं न मे न चाहं भवबीजशान्तिः ।
बीजे प्रनष्टे कुत एव जन्म निरिन्धनो वह्निरुपैति शान्तिम् ॥
अहं महानसायातः कल्पितो नरकस्तव ।
मया मांसादिकं भुक्तं भीमं जानीहि मां बक ॥
अहंयुवरवर्णिनीजनमदायतोदव्रत- स्फुरच्चतुरपञ्चमस्वरजितान्यपक्षिव्रजः ।
रसालतरुणा कृतामसमतुल्यतामात्मनो विहन्तुमिह कोकिलः फलिनमन्यमुद्वीक्षते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0