महासुभाषितसंग्रह · श्लोक 4003-4022
अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारम् ।
स्फुटस्फुरद्भङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् ॥
अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च न संमुखौ रचयतः कम्पं च न प्राप्नुतः ।
तद्युक्तं न पुनर्निवृत्तिरुभयोर्जागर्ति यन्मुक्तयोर् एकस्तत्र भिनत्ति मित्रमपरश्चामित्रमित्यद्भुतम् ॥
अस्या ललाटे रचिता सखीभिर् विभाव्यते चन्दनपत्रलेखा ।
आपाण्डुरक्षामकपोलभित्ताव् अनङ्गबाणव्रणपट्टिकेव ॥
अस्या वपुषि तारुण्यं शैशवं वा कृतास्पदम् ।
जातिः कापालिकस्येव न केनाप्यवधार्यते ॥
अस्या वपुषि तुलायां शैशवगुञ्जां च यौवनं हेम ।
तुलयति कुतुकिनि कामे न नमति मध्यान्मनःसूची ॥
अस्याश्चेदलकावली कृतमलिश्रेणीभिरेणीदृशः सौन्दर्यं यदि चक्षुषोस्तरलयोः किं मन्मथस्यायुधैः ।
का प्रीतिः कनकारविन्दमुकुले पीनौ स्तनौ चेदतो मन्ये काचिदियं मनोभवकृता माया जगन्मोहिनी ॥
अस्याश्चेद् गतिसौकुमार्यमधुना हंसस्य गर्वैरलं संलापो यदि धार्यतां परभृतैर्वाचंयमत्वव्रतम् ।
अङ्गानामकठोरता यदि दृषत्प्रायैव सा मालती कान्तिश्चेत् कमला किमत्र बहुना काषायमालम्बताम् ॥
अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजाम् ।
संग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ॥
अस्यास्तनिमा मध्ये प्रथिमा कुचयोर्दृशोश्च चाञ्चल्यम् ।
ऊर्वोः क्रमेण वृत्तो- न्नाहश्च तुल्यतां दधति ॥
अस्यास्तनुस्यन्दनसंस्मितो वै स मीनकेतुर्जगतीं विजेतुम् ।
सकुङ्कुमालेखमिषेण वीरो व्यमोचयच्चारुतरां पताकाम् ॥
अस्यास्तनौ विरहताण्डवरङ्गभूमौ स्वेदोदबिन्दुकुसुमाञ्जलिमाविकीर्य ।
नान्दीं पपाठ पृथुवेपथुवेपमान- काञ्चीलताकलरवैः स्मरसूत्रधारः ॥
अस्यास्तुङ्गमिव स्तनद्वयमिदं निम्नेव नाभिः स्थिता दृश्यन्ते विषमोन्नताश्च वलयो भित्तौ समायामपि ।
अङ्गे च प्रतिभाति मार्दवमिदं स्निग्धस्वभावश्चिरं प्रेम्णा मन्मुखचन्द्रमीक्षत इव स्मेरेव वक्तीति च ॥
अस्यास्त्राणमहो वियोगदुरितादस्मासु कृत्वा कृती स्वैरं गच्छसि तत्तु किं विमृशसि त्रासावहं हन्त नः ।
वाचालेषु दिनेषु कोकिलरुतैरुत्पञ्चमप्रक्रमैः सज्योत्स्नासु च यामिनीष्वशरणाः किं नाम कुर्मो वयम् ॥
अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः ।
पृथक् पृथग् गमिष्यन्ति किमुतान्यः प्रियो जनः ॥
अस्यैव रम्भोरु तावननस्य दृशैव संजीवितमन्मथस्य ।
वनं विधाता ननु नीरजानां नीराजनार्थं किमु निर्मिमीते ॥
अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः ।
इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्याम् ॥
अस्योदरस्य प्रतितुल्यशोभं नास्तीति धात्रा भुवनत्रयेऽपि ।
संख्यानरेखा इव संप्रयुक्तास् तिस्रो विरेजुर्वलयः सुदत्याः ॥
अस्योर्वीरमणस्य पार्वणविधुद्वैराज्यसज्जं यशः सर्वाङ्गोज्ज्वलशर्वपर्वतसितश्रीगर्वनिर्वासि यत् ।
तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियः पर्यायः किमु दुग्धसिन्धुपयसां सर्वानुवादः किमु ॥
अस्रं लोचनकोण एव कृपणद्रव्यायते सर्वदा कण्ठे काकुवचः प्रसुप्तकमलक्रोडस्थभृङ्गायते ।
हा रावो हृदये वियोगिकुलजाकामाभिलाषायते वैदेहीविरहज्वरो रघुपतेरापाकतापायते ॥
अस्रमजस्रं मोक्तुं धिङ् नः कर्णायते नयने ।
द्रष्टव्यं परिदृष्टं तत्कैशोरं व्रजस्त्रीभिः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0