महासुभाषितसंग्रह · श्लोक 3983-4002
अस्याः स चारुर्मधुरेव कारुः श्वासं वितेने मलयानिलेन ।
अमूनि सूनैर्विदधेऽङ्गकानि चकार वाचं पिकपञ्चमेन ॥
अस्याः सपक्षैकविधोः कचौघः स्थाने मुखस्योपरि वासमाप ।
पक्षस्थतावद्बहुचन्द्रकोऽपि कलापिनां येन जितः कलापः ॥
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तप्रभः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन् मनोहरमिदं रूपं पुराणो मुनिः ॥
अस्याः सर्गविधौ प्रजापतिरहो चन्द्रो न संभाव्यते नो देवः कुसुमायुधो न च मधुर्दूरे विरिञ्चः प्रभुः ।
एतन्मे मतमुत्थितेयममृतात् काचित् स्वयं सिन्धुना या मन्थाचललोडितेन हरये दत्त्वा श्रियं रक्षिता ॥
अस्याः सुगन्धिनवकुङ्कुमपङ्कदत्तो मुग्धश्चकास्ति तिलको मदिरेक्षणायाः ।
आविष्टरागमभिराममुखारविन्द- निष्यन्दलग्नमिव मे हृदयं द्वितीयम् ॥
अस्याः स्वेदाम्बुबिन्दुच्युततिलकतया व्यक्तवक्त्रेन्दुकान्तेर् वारंवारेण वेगप्रहणनगणनाकेलिवाचालितायाः ।
तत्पातोत्पाततालक्रमनमितदृशस्ताण्डवोत्तालताली- लालित्याल्लोभिताः स्मः प्रतिपदममुना कन्दुकक्रीडितेन ॥
अस्याङ्के कषपट्टभासिचपला श्रीः स्वर्णरेखायते धारासारघनं सुदर्शनमदश्चक्रं जगत्पश्यति ।
प्रोदञ्चद्वनमालमञ्जनरुचा देहेन पीताम्बरं दूरोन्नीतशिखण्डमण्डलमिदं रूपं हरेरम्बुदः ॥
अस्या धामसरोवरे भुजबिसे वक्त्रारविन्दे भ्रमन् नेत्रभ्रूभ्रमरे सुयौवनजले कस्तूरिकापङ्किले ।
वक्षोजप्रतिकुम्भिकुम्भदलनक्रोधादुपेत्य द्रुतं मग्नश्चित्तमतंगजः कथमसावुत्थाय निर्यास्यति ॥
अस्याननस्य भवतः खलु कोटिरेषा कण्टारिका यदि भवेदविशीर्णपर्णा ।
योग्या क्व ते करभ कल्पतरोर्लतायास् ते पल्लवा विमलविद्रुमभङ्गभाजः ॥
अस्याभ्यासाद् ग्रन्थवर्यस्य शिष्यः सर्वज्ञः स्याद् विस्फुरच्चारुबुद्धिः ।
अर्थं कामं वेत्ति धर्मं च मोक्षं निःसंदेहं शीलितुं पण्डितोऽपि ॥
अस्या मनोहराकारकबरीभारतर्जिताः ।
लज्जयेव वने वासं चक्रुश्चमरबर्हिणः ॥
अस्यामपूर्व इव कोऽपि कलङ्करिक्तश् चन्द्रोऽपरः किमुत तन्मकरध्वजेन ।
रोमावलीगुणमिलत्कुचमन्दरेण निर्मथ्य नाभिजलधिं ध्रुवमुद्धृतः स्यात् ॥
अस्या मुखं हिमरुचिर्ननु यद्विधात्रा संपूर्य सर्वमवशेषतयात्र मुक्तः ।
आश्यानतामुपगतोऽस्य रुचा चकास्ति नासाग्रमौक्तिकमिषादमृतस्य बिन्दुः ॥
अस्या मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्रात् ।
अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित् ॥
अस्या मुखस्यास्तु न पूर्णमास्यं पूर्णस्य जित्वा महिमा हिमांशुम् ।
भ्रूलक्ष्मखण्डं दधदर्धमिन्दुर् भालस्तृतीयः खलु यस्य भागः ॥
अस्या मुखेन लोकानां हृतपङ्कजकान्तिना ।
निशासु नाशिता निद्रा कुमुदानामिवेन्दुना ॥
अस्या मुखेनैव विजित्य नित्य- स्पर्धी मिलत्कुङ्कुमरोषभासा ।
प्रसह्य चन्द्रः खलु नह्यमानः स्यादेव तिष्ठत्परिवेषपाशः ॥
अस्या मुखेन्दावधरः सुधाभूर् बिम्बस्य युक्तः प्रतिबिम्ब एषः ।
तस्याथवा श्रीर्द्रुमभाजि देशे संभाव्यमानास्य तु विद्रुमे सा ॥
अस्यामोषधयो ज्वलन्तु दधतु ज्योतींषि कीटा अपि प्रोन्मीलन्तु भुजङ्गमौलिमणयः क्रीडन्तु दीपाङ्कुराः ।
प्रष्टव्याः खलु यूयमेव यदि कोऽप्यस्तं गते भास्वति प्रौड्ःअध्वान्तपयोधिमग्नजगतीहस्तावलम्बक्षमः ॥
अस्या यदष्टादश संविभज्य विद्याः श्रुती दध्रतुरर्धमर्धम् ।
कर्णान्तरुत्कीर्णगभीररेखः किं तस्य संख्यैव नवा नवाङ्कः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0