महासुभाषितसंग्रह · श्लोक 3903-3922
अस्मदीश्वरविश्वासप्रमाणेन प्रभोः कृपा ।
विधातुं प्रभवेत् कार्यं साहाय्यं च तथैव नः ॥
अस्मद्रिपूणामनिलाशनानां दत्तो निवासः खलु चन्दनेन ।
इतीव रोषाद् व्यजनस्य वायुर् व्यशोषयच्चन्दनमङ्गसंस्थम् ॥
अस्मद्वैरी शशभृदमुना जीयते ह्यन्धकारः सारङ्गाक्ष्या मुखमनुगतः केशपाशच्छलेन ।
तं संश्रुत्य प्रगलितमहाः शीतरश्मिस्तदैव प्राप्तः सेवाघटनविधये मालतीदामभङ्ग्या ॥
अस्माकं जलजीविनां जलमिदं सद्वाजिराजिव्रजैः पातव्यं पररक्तरक्तमनसां तृप्तिः पतीनां क्षयः ।
मत्वैवं किल राजराज नृपते त्वज्जैत्रयात्रोत्सवे मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वैरिस्त्रियः ॥
अस्माकं परमन्दिरस्य चरितं यद्यप्यवाच्यं भवेत् स्वामी त्वं कथयामि तेन भवतः किंचित् प्रियादूषणम् ।
श्रीमद् राम नृप त्वया रणमुखे पाणिग्रहः सादरं यस्याः सासिलता परस्य हृदये दृष्टा लुठन्ती मया ॥
अस्माकं बत मण्डले प्रथमतः पत्या करः पात्यते काञ्चीकुन्तलमध्यदेशविषयान् संत्यज्य भूरिश्रियः ।
इत्यालोक्य कुचौ पयोरुहदृशां जातौ सुनीलाननौ नो नीचोऽपि पराभवं विषहते किं तादृशावुन्नतौ ॥
अस्माकं वदरीचक्रं बदरी च तवाङ्गणे ।
वादरायणसम्बन्धाद् यूयं यूयं वयं वयम् ॥
अस्माकं व्रतमेतदेव यदयं कुञ्जोदरे जागरः शुश्रूषा मदनस्य वक्त्रमधुभिः संतर्पणीयोऽतिथिः ।
निस्त्रिंशाः शतशः पतन्तु शिरसश्छेदोऽथवा जायताम् आत्मीयं कुलवर्त्म पुत्रि न मनागुल्लङ्घनीयं त्वया ॥
अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः ।
किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥
अस्माकमङ्गमङ्गं पण्योपनतं महाधननिधानम् ।
दासीसुताः किमेते स्वादन्ति विटाः प्रसङ्गेन ॥
अस्माकमध्यासितमेतदन्तस् तावद्भवत्या हृदयं चिराय ।
बहिस्त्वयालंक्रियातमिदानी- मुरो मुरं विद्विषतः श्रियेव ॥
अस्माकमात्मभूर्भूत्वा हन्तास्मानेव हंसि यत् ।
रे रे कन्दर्प तन्नित्यम् अनङ्गत्वं सदास्तु ते ॥
अस्माकमेकपद एव मरुद्विकीर्ण- जीमूतजालरसितानुकृतिर्निनादः ।
गम्भीरमङ्गलमृदङ्गसहस्रजन्मा शब्दान्तरग्रहणशक्तिमपाकरोति ॥
अस्मात् परं बत यथाश्रुति संभृतानि को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति ॥
अस्मादृशां नूनमपुण्यभाजां न स्वोपयोगी न परोपयोगी ।
सन्नप्यसद्रूपतयैव वेद्यो दारिद्र्यमुद्रो गुणरत्नकोषः ॥
अस्मानवेहि कलमानलमाहतानां येषां प्रचण्डमुसलैरवदाततैव ।
स्नेहं विमुच्य सहसा खलतां प्रयान्ति ये स्वल्पपीडनवशान्न वयं तिलास्ते ॥
अस्मान् मा भज कालकूटभगिनि स्वप्नेऽपि पद्मालये व्याधीभूय कदर्थयन्ति बहुशो मातर्विकारा इमे ।
यच्चक्षुर्न निरीक्षतेच्छविषयं नैवं शृणोति श्रुतिः प्राणा एव वरं प्रयान्ति न पुनर्निर्यान्ति वाचो बहिः ॥
अस्मान् विचित्रवपुषश्चिरपृष्ठलग्नान् को वा विमुञ्चति सखे यदि वा विमुञ्च ।
हा हन्त केकिवर हानिरियं तवैव भूपालमूर्धनि पुनर्भविता स्थितिर्नः ॥
अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस् त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतःपरं न खलु तद्वाच्यं वधूबन्धुभिः ॥
अस्माभिः कलितं पुरा न भवती भुक्ता नृभिः कैरपि प्रौढा मानवशालिनीति चलितं चेतः सकामं त्वयि ।
धिक् त्वां संप्रति सद्भुजङ्गजनतासंश्लेषमातन्वती गम्या सर्वजनस्य वारवनितेवोत्क्षेपणीयासि नः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0