भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3883-3902

3883

अस्थाने ह्यपि च स्थाने सततं चानुगामिनि ।
क्रुद्धो दण्डान् प्रणयति विविधांस्तेजसा वृतः ॥

3884

अस्थिक्षोदवतीव कुन्दमुकुलैः फुल्लैः पलाशद्रुमैः साङ्गारप्रकरेव धूमकलुषेवोत्पातिभिः षट्पदैः ।
रक्ताक्षद्युतिभिः सशेषदहनालातेव पुंस्कोकिलैर् दृष्टा प्राणसमाचितेव पथिकैराराद् वनान्तस्थली ॥

3885

अस्थि नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः ।
नास्ति पादद्वयं गाढम् अङ्गमालिङ्गति स्वयम् ॥

3886

अस्थिरं जीवितं लोके यौवनं धनमस्थिरम् ।
अस्थिरं पुत्रदारादि धर्मः कीर्तिर्द्वयं स्थिरम् ॥

3887

अस्थिरः कुलसंबन्धः सदा विद्या विवादिनी ।
मदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥

3888

अस्थिरमनेकरागं गुणरहितं नित्यवक्रदुष्प्रापम् ।
प्रावृषि सुरेन्द्रचापं विभाव्यते युवतिचित्तमिव ॥

3889

अस्थिरेण शरीरेण स्थिरं कर्म समाचरेत् ।
अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णका इव ॥

3890

अस्थिवद् दधिवच्चैव शङ्खवद् बकवत् तथा ।
राजंस्तव यशो भाति पुनः संन्यासिदन्तवत् ॥

3891

अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु ।
गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥

3892

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥

3893

जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥

3894

नदीकूलं यथा वृक्षं वृक्षं वा शकुनिर्यथा ।
तथा त्यजन्निमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ॥

3895

अस्थीनि मज्जा शुक्लं च पितुरंशास्त्रयो मताः ।
रक्तं रोमाणि पललम् अंशा मातुरमी मता ॥

3896

अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दुर् गङ्गा गङ्गोरग उरग इत्याकुलाः संभ्रमेण ।
भूषावेषोपकरणगणप्रापणव्यापृतानां नृत्तारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ॥

3897

अस्नाताशी मलं भुङ्क्ते अजपी पूयभक्षणम् ।
अहुताशी विषं भुङ्क्ते अदाता विषमश्नुते ॥

3898

अस्पृश्यसंगतिमिह प्रविधाय सोढा दण्डाहतीः पटह बन्धमपि प्रपद्य ।
दोषं प्रकाशयसि यत्प्रतिरथ्यमेव लोकस्य तद्विमुखतां प्रकटीकरोषि ॥

3899

अस्पृश्योऽस्तु मलीमसोऽस्त्वनियताहारोऽस्त्वतोऽप्युद्भटैर् दोषैरस्तु परःशतैः परिवृतः काकस्ततः का क्षतिः ।
भुङ्क्ते भोज्यमुपस्थितं समुपहूयैव स्वयं बान्धवान् यः सीदन् क्षुधया विचिन्तय ततो धन्यश्च पुण्यश्च कः ॥

3900

अस्पृष्टे राहुभीत्याहनि निशि च समे कल्मषच्छाययोने हासत्रासाद् विदूरे समुपचितविभावैभवे हृद्यगन्धे ।
पाथोदाच्छादहीने धरणितलगतादुर्लभे सर्वलोका- ह्लादं चाप्यादधाने सुमुखि तव मुखौपम्यलेशः सुधांशौ ॥

3901

अस्मत्पूर्वैः सुरपतिहृतं द्रष्टुकामैस्तुरङ्गं भित्त्वा क्षोणीमगणितबलैः सागरो वर्धितात्मा ।
सत्कारार्थं तव यदि गिरीनादिशेद् गुप्तपक्षा न श्रान्तोऽपि प्रणयमुचितं नैव बन्धोर्विहन्याः ॥

3902

अस्मत्प्रयाणसमये कुरु मङ्गलानि किं रोदिषि प्रियतमे वद कारणं मे ।
भोः प्राणनाथ विरहानलतीव्रताप- धूमेन वारि गलितं मम लोचनानाम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc