महासुभाषितसंग्रह · श्लोक 3863-3882
अस्त्येकं भुवनं सूक्ष्मं क्षमध्वे यत्र वीक्षितुम् ।
विषयांश्चित्रविद्यायाश् चित्राणां चलतां तथा ॥
नाटकाख्यायिकानां च शक्यान् सर्वविधानपि ।
स्फुरणा जायते प्रायस् तत एव कलाकृताम् ॥
अस्त्येव भूभृतां मूर्ध्नि दिवि वा द्योततेऽम्बुदः ।
मरुद्भिर्भज्यमानोऽपि स किमेति रसातलम् ॥
अस्त्येवोद्दामदावानलविकलतरं काननं यत्र तत्र प्रौढोत्तापाभिभूतं जगदपि सकलं निर्जला एव नद्यः ।
किं रे निर्लज्ज गर्जं कलयसि बहुशस्तर्जयन् पान्थबालाः पर्जन्य त्वाममी किं क्वचिदपि गणयन्त्यम्बुदत्वेन लोकाः ॥
अस्त्रं विमुच्य सकलं प्रथमप्रयोगे भूयोऽपि हन्तुमबलां विहितोद्यमस्य ।
पुष्पायुधस्य वपुरेव तदीयमेकं लक्ष्यं च हन्त शरधिश्च तदा बभूव ॥
अस्त्रं स्त्री वामनो मर्त्यः पशुरेभ्योऽथवेतरः ।
विधियोगाद् भवेत् कामं पौरुषं न परित्यजेत् ॥
अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन् मम पितरि गुरौ सर्वधन्वीश्वराणाम् ।
कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्यशङ्कां ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ॥
अस्त्रप्रयोगखुरलीकलहे गणानां सैन्यैर्वृतोऽपि जित एव मया कुमारः ।
एतावतापि परिरभ्य कृतप्रसादः प्रादादिमं प्रियगुणो भगवान् गुरुर्मे ॥
अस्त्रव्यस्तशिरस्त्रशस्त्रकषणैः कृत्तोत्तमाङ्गे क्षणं व्यूढासृक्सरिति स्वनत्प्रहरणे वर्मोद्वमद्वाह्निनि ।
आहूयाजिमुखे स कोसलपतिर्भग्ने प्रधाने बले एकेनैव रुमण्वता शरशतैर्मत्तद्विपस्थो हतः ॥
अस्त्राणि प्लवगाधिपेन विहिताः पौलस्त्यवक्षःस्थली- संघट्टानलदत्तदावविपदः सीदन्ति भूमीरुहाः ।
उत्पाट्य प्रहितश्च शैलशिखरो लङ्केन्द्रहस्तावली- निष्पिष्टो निजकुञ्जनिर्झरजलैर्जम्बालपिण्डायते ॥
अस्त्रामास तृणं प्रियाद्रुहि तृणामास स्मरारेर्धनुर् दारामास मुनेः शिलापि नृवरामास स्वयं पादुका ।
कुल्यामास महार्णवोऽपि कपयो योधांबभूवुस्तदा पौलस्त्यो मशकीबभूव भगवंस्त्वं मानुषामासिथाः ॥
अस्त्रौघप्रसरेण रावणिरसौ यं दुर्यशोभागिनं चक्रे गौतमशापयन्त्रितभुजस्थेमानमाखण्डलम् ।
कच्छावर्तकुलीरतां गमयता वीर त्वया रावणं तत्संमृष्टमहो विशल्यकरणी जागर्ति सत्पुत्रता ॥
अस्त्वक्षरग्रहविधिर्जनुषां सहस्रैर् आपाततो भवतु वापि ततोऽर्थबोधः ।
दुर्वादिकल्पितविकल्पतरङ्गसान्द्रान् दुष्पूर्वपक्षजलधीन् कथमुत्तरेयुः ॥
अस्थानगामिभिरलंकरणैरुपेता भूयः पदस्खलननिह्नुतिरप्रसन्ना ।
वाणीव कापि कुकवेर्जनहस्यमाना द्राङ्निर्गता निजगृहाद् वनिता मदान्धा ॥
अस्थानाभिनिवेशिता रतिपतेरौचित्यभङ्गो रतेर् वैयर्थ्यं नवयौवनस्य किमपि प्रेम्णः कलङ्काङ्कुरः ।
सौभाग्यस्य विमानना विगुणता सौन्दर्यसारश्रियः शृङ्गारस्य विडम्बना किमपरं वेश्यारताडम्बरः ॥
अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् ।
बालादन्यः कोऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम् ॥
अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा ।
स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥
अस्थाने जनसंकटे मयि मनाक् काञ्चीं समास्कन्दति व्यालोले रशनांशुके विगलिते नीते च नाभेरधः ।
धन्योऽयं स करः कुरङ्गकदृशा तस्मिन्नवस्थान्तरे कम्पातङ्ककरंबिताङ्गलतया यस्यावकाशः कृतः ॥
अस्थाने ताडितो वाजी बहून् दोषानवाप्नुयात् ।
तावद्भवन्ति ते दोषा यावज्जीवत्यसौ हयः ॥
अस्थानेऽभिनिविष्टान् मूर्खानस्थान एव संतुष्टान् ।
अनुवर्तन्ते धीराः पितर इव क्रीडतो बालान् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0