भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3843-3862

3843

अस्ति ग्रीवा शिरो नास्ति द्वौ भुजौ करवर्जितौ ।
सीताहरणसामर्थ्यो न रामो न च रावणः ॥

3844

अस्ति जलं जलराशौ क्षारं तत् किं विधीयते तेन ।
लघुरपि वरं स कूपो यत्राकण्ठं जनः पिबति ॥

3845

अस्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च ।
अभावे सति संतोषः स्वर्गस्थोऽसौ महीतले ॥

3846

अस्ति भयमस्ति कौतुकम् अस्ति च मन्दाक्षमस्ति चोत्कण्ठा ।
बालानां प्रणयिजने भावः कोऽप्येष नैकरसः ॥

3847

अस्ति यद्यपि सर्वत्र नीरं नीरजराजितम् ।
मोदते न तु हंसस्य मानसं मानसं विना ॥

3848

अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो देवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः ।
क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर् भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥

3849

अस्ति स्वर्णमयोऽद्रिरस्ति विषयः क्षुत्तृड्भरावर्जितः सन्ति क्षीरघृताकरा जलधयः सन्ति द्रुमाः कामदाः ।
किं नस्तच्चरिताद्भुतश्रवणतः साध्यं क्षुधा ताम्यतां दृष्टं यत्सविधे विधेहि सुमते तत्रैव सर्वं श्रमम् ॥

3850

अस्ति स्वादुफलं किमस्ति किमथाघ्रातुं क्षमः कोरकस् तद्विश्राम्यतु नाम भोक्तुमुचितं पत्रं किमस्त्यन्ततः ।
सेव्यो हन्त यदीदृशोऽपि मनुजैर्वृक्षाधमः पिप्पलो दुःस्वातन्त्र्यमिदं विधेः कथय तत् कस्याग्रतो रुद्यताम् ॥

3851

अस्तीत्येव कृषिं कुर्यात् अस्ति नास्तीति वाणिजम् ।
नास्तीत्येव ऋणं दद्यात् नाहमस्मीति साहसम् ॥

3852

अस्तु तावदगस्त्येन जह्नोर्महिमनिह्नवः ।
का कथा तस्य बालस्य विश्वग्रासेऽप्यतृप्यतः ॥

3853

अस्तु स्वस्त्ययनाय दिग्धनपते कैलासशैलाश्रय- श्रीकण्ठाभरणेन्दुविभ्रमदिवानक्तंभ्रमत्कौमुदी ।
यत्रालं नलकूबराभिसरणारम्भाय रम्भास्फुरत् पाण्डिम्नैव तनोस्तनोति विरहव्यग्रापि वेशग्रहम् ॥

3854

अस्ते शिवा पश्चिमायां परचक्रभयाय सा ।
शुभा कुबेरदिश्यस्ते ग्रामान्तः शून्यकारिणी ॥

3855

अस्तोकविस्मयमपस्मृतपूर्ववृत्तम् उद्भूतनूतनभयज्वरजर्जरं नः ।
एकक्षणत्रुटितसंघटितप्रमोहम् आनन्दशोकशबलत्वमुपैति चेतः ॥

3856

अस्तोदयाचलविलम्बिरवीन्दुबिम्ब- व्याजात् क्षणं श्रवणयोर्निहितारविन्दा ।
ताराच्छलेन कुसुमानि समुत्क्षिपन्ती संध्येयमागतवती प्रमदेव काचित् ॥

3857

अस्तोदयाद्रिगतमर्कशशाङ्कबिम्बम् अह्नोऽतिवार्धकदशामवलम्बितस्य ।
ताराक्षराणि पठितुं तपनीयशैल- नासावसक्तमुपनेत्रमिवाबभासे ॥

3858

अस्तोपधानविनिहित- रविबिम्बशिरोनिकुञ्चितदिगङ्गः ।
वस्तेऽन्धकारकम्बलम् अम्बरशयने दिनाध्वन्यः ॥

3859

अस्त्यत्रैव किलार्णवे तदमृतं तत्रैव हालाहलः सन्त्यस्मिन् मलये पटीरतरवस्तत्रैव वाताशनाः ।
यद्यद्वस्त्वभिजातमस्ति सविधे तत्तद् दुरापं नृणां प्राप्तव्यं रसनाञ्चले करतले भाले च वेधा न्यधात् ॥

3860

अस्त्यद्यापि चतुःसमुद्रपरिखापर्यन्तमुर्वीतलं वर्तन्तेऽपि च तत्र तत्र रसिका गोष्ठीषु सक्ता नृपाः ।
एकस्तत्र निरादरो भवति चेदन्यो भवेत् सादरो वाग्देवी वदनाम्बुजे वसति चेत् को नाम दीनो जनः ॥

3861

अस्त्यप्रतिसमाधेयं स्तनद्वन्द्वस्य दूषणम् ।
स्फुटतां कञ्चुकानां यन् नायात्यावरणीयताम् ॥

3862

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc