भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3823-3842

3823

अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः ।
तत्ते कालं कतिपलमयं भाति खद्योतपोत द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः ॥

3824

अस्तं शशी याति शशाङ्कवदने मानं विमुञ्चाधुना किं मानेन मुधा नतभ्रु गगनाद् भ्रश्यन्त्यमूस्तारकाः ।
इत्थं त्वामनुशिक्षयन् क्षितितलादुन्नम्य पादं शनैः क्षीणां वीक्ष्य निशां निसर्गसुभगं गायत्यसौ कुक्कुटः ॥

3825

अस्तग्रस्तगभस्तिमत्करततिन्यङ्नीतचञ्चूपुटी पाटीराद्रिमथो हिमाचलमधः प्रक्षिप्य पक्षद्वयम् ।
पश्चादुन्नतपुच्छपुञ्जमुदयत्प्राचीप्रकाशच्छलाद् अण्डं मण्डलमैन्दवं जनयति व्यक्तं बकोटीवियत् ॥

3826

अस्तप्रत्युपकारगन्धमकृतस्वप्रार्थनापेक्षम- प्यम्भोभिर्भुवमार्द्रयन्ति जलदा जीवन्त्यमी जन्तवः ।
दैवज्ञः पुनरस्ति वृष्टिरिति वागेका मयोक्तेति यद् विश्वं क्रीतमिवाधिगच्छति तदेवाघूर्णते मर्मणि ॥

3827

अस्तब्धः पूजयेन् मान्यान् गुरून् सेवेदमायया ।
अर्चेद् देवान्नदम्भेन श्रियमिच्छेदकुत्सिताम् ॥

3828

अस्तब्धतामचापल्यं वैराणां चाप्यकर्तृताम् ।
प्रत्यक्षतो विजानीयाद् भद्रतां क्षुद्रतामपि ॥

3829

अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः ।
अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नम् ॥

3830

अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा ।
पीनस्तनस्थिताताम्रकम्रवस्त्रेव वारुणी ॥

3831

अस्तमितविषयसङ्गा मुकुलितनयनोत्पला मृदुश्वसिता ।
ध्यायति किमप्यलक्ष्यं नित्यं योगाभियुक्तेव ॥

3832

अस्तमीयुषि निशाकरे सती रागतोऽतिविधुरा कुमुद्वती ।
षट्पदं गरलमग्रहीन् मुखे संमुखेऽपि खगशब्दवारिता ॥

3833

अस्तव्यस्तमितस्ततः पथि पतन् मद्यं महादुद्वमन् हस्ताभ्यां मुखमक्षिकाः परिणुदन् गालीर्गदन् गद्गदन् ।
उत्तालैः शिशुभिर्भृशं वलयितो बीभत्समूर्तिर्महान् मत्तो दक्षिणतः क्षणं क्षिप दृशं मत्तोऽयमागच्छति ॥

3834

अस्तव्यस्तसमीरकम्पिततया दृष्टेस्तिरस्कारिणीं हस्तेनालकवल्लरीमकुटिलामानीय कर्णान्तिकम् ।
उद्वीक्ष्य प्रियमार्गमध्वगवधूरस्तं गते भास्वति छिन्नाशा स्वनिवेशमेति शनकैः स्वप्नेक्षणाशंसिनी ॥

3835

अस्तव्यस्तान् क्रमततगतीन् पत्रिमालातरङ्गान् वेणीदण्डानिव धृतवती मुक्तसंध्याङ्गरागा ।
ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या द्यौः प्रत्यग्रद्युमणिविरहाद्वान्तमक्ष्णोर्न याति ॥

3836

अस्ताद्रिपार्श्वमुपजग्मुषि तिग्मभासि जानीत शीतकिरणोऽभ्युदितो न वेति ।
चारा इवाथ रजनीतिमिरप्रयुक्ताश् चेरुश्चिरं चरणभूमिषु चञ्चरीकाः ॥

3837

अस्ताद्रिशिरोविनिहित- रविमण्डलसरसयावघट्टाङ्कम् ।
नयतीव कालकौलः क्वापि नभःसैरिभं सिद्ध्यै ॥

3838

अस्ताभिमुखे सूर्ये उदिते संपूर्णमण्डले चन्द्रे ।
गमनं बुधस्य लग्ने उदितास्तमिते च केतौ ॥

3839

अस्तावलम्बिरविबिम्बतयोदयाद्रि- चूडोन्मिषत्सकलचन्द्रतया च सायम् ।
संध्याप्रनृत्तहरहस्तगृहीतकांस्य- तालद्वयेव समलक्ष्यत नाकलक्ष्मीः ॥

3840

अस्ताविलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदा गावः ।
प्रचलच्चिपिटविषाणा करटाः खरसदृशवर्णाश्च ॥

3841

अस्ति कारणमव्यक्तं सर्वव्यापि परापरम् ।
सांनिध्यादपि दुर्ग्राह्यं विश्वमूर्त्योपलक्षितम् ॥

3842

अस्ति कोऽपि तिमिरस्तनंधयः किंचिदञ्चितपदं स गायति ।
यन्मनागपि निशम्य का वधूर् नावधूतहृदयोपजायते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc