भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3803-3822

3803

असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः ।
तमिस्रपक्षेऽपि सह प्रियाभिर् जोत्स्नावतो निर्विशति प्रदोषान् ॥

3804

असौ महेन्द्रद्विपदानगन्धिस् त्रिमार्गगावीचिविमर्दशीतः ।
आकाशवायुर्दिनयौवनोत्थान् आचामति स्वेदलवान् मुखे ते ॥

3805

असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च ।
यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥

3806

असौ रसौचित्यगुणोज्ज्वलोऽपि गुम्फो न काव्यव्यपदेशयोग्यः ।
धत्ते खलस्यापि न दुर्विषह्य- द्वेषग्रहोत्सारणमन्त्रतां यः ॥

3807

असौ विद्याशाली शिशुरपि विनिर्गत्य भवनाद् इहायातः संप्रत्यविकलशरच्चन्द्रवदनः ।
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥

3808

असौ समरसाहसं वितनुतेऽग्रिमश्रेयसे मुकुन्दममुमात्मनि स्थिरयितुं न किं वाञ्छति ।
अतः परतरं कुतः प्रतरणाय वारांनिधेर् निदानमिह संसृतेः सुखसृतेश्च किं कारणम् ॥

3809

असौ समालोकितकाननान्तरे विकीर्णविस्पष्टमरीचिकेसरः ।
विनिर्गतः सिंह इवोदयाचलाद् गृहीतनिष्पन्दमृगो निशाकरः ॥

3810

असौ हि दत्त्वा तिमिरावकाशम् अस्तं व्रजत्युन्नतकोटिरिन्दुः ।
जलावगाढस्य वनद्विपस्य तीक्ष्णं विषाणाग्रमिवावशिष्टम् ॥

3811

असौ हि रामा रतिविग्रहप्रिया रहःप्रगल्भा रमणं रहोगतम् ।
रतेन शत्रौ रमयेत् परेन वा नो चेदुदेष्यत्यरुणः पुरो रिपुः ॥

3812

असौ हि संकेतसमुत्सुकाभिर् विलासिनीभिर्मदनातुराभिः ।
सरोषदृष्टः स्फुरिताधराभिर् द्रुतं रविर्भीत इवास्तमेति ॥

3813

अस्तंगतभारविरवि कालवशात् कालिदासविधुविधुरम् ।
निर्वाणबाणदीपं जगदिदमद्योति रत्नेन ॥

3814

अस्तं गतवति सवितरि पायसपिण्डं सुधाकरं प्राची ।
व्यरचयदम्बरकुशभुवि चरति कलङ्कस्तदन्तरे काकः ॥

3815

अस्तं गतवति सवितरि भर्तरि मधुपं निवेश्य कोशान्ते ।
कमलिन्योऽपि रमन्ते किमत्र चित्रं मृगाक्षीणाम् ॥

3816

अस्तंगते दिवानाथे नलिनी मधुपच्छलात् ।
गिलन्ति स्वविनाशाय गुटिकां कालकूटजाम् ॥

3817

अस्तंगते निजरिपावपि कुम्भयोनौ संकोचमाप जलधिर्न तु माद्यति स्म ।
गम्भीरतागुणचमत्कृतविष्टपानां शत्रुक्षयेऽपि महतामुचितं ह्यदः स्यात् ॥

3818

अस्तंगते भास्वति नान्धकारान् शनैश्चरो हन्ति विधौ बुधश्च ।
पितुर्गुणैर्न प्रतिभाति पुत्रो गुणान्वितो यः स गुणेन भाति ॥

3819

अस्तंगतोऽयमरविन्दवनैकबन्धुर् भास्वान्न लङ्घयति कोऽपि विधिप्रणीतम् ।
हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं धीरास्तरन्ति विपदं न तु दीनचित्ताः ॥

3820

अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि स्त्रीलोकोचितमाचरन्ति सुकृतं वह्नौ विलीय त्विषः ।
अप्येतास्तु चिकीर्षयेव तपसां ताराक्षमाला दिशो मन्ये खञ्जनकण्ठकोमलतमःकृष्णाजिनं बिभ्रति ॥

3821

अस्तं मुक्तिरुपैतु यत्र न तनूसाध्या हरेर्भक्तयस् तन्नः संसृतिरेधतां निरवधिर्यस्याः प्रसादोदयात् ।
मूर्ध्नि श्रीपुरुषोत्तमप्रणतयः श्रीरामनामानने हृद्देशे यदुनन्दनस्य जलदश्यामाभिरामाकृतिः ॥

3822

अस्तं यतापि किल मस्तकवर्तिनासाव् अस्ताचलोऽहिमरुचा रुचिमप्यलम्भि ।
प्रायः परोपकृतये कृतिनोऽनेपेक्ष्य स्वार्थं विपत्कवलिता अपि भावयन्ति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc