महासुभाषितसंग्रह · श्लोक 3783-3802
असुहृत्ससुहृच्चापि सशत्रुर् मित्रवानपि ।
सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम् ॥
असूचिभेद्यामासाद्य बालां प्रौढाभिलापिणीम् ।
हा कष्टं मुषितोऽस्मीति प्रभाते वक्ति कामुकः ॥
असूचीसंचारे तमसि नभसि प्रौढजलद- ध्वनिप्राज्ञंमन्ये पतति पृषतानां निचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥
असूत सद्यः कुसुमान्यशोकः स्कन्धात् प्रभृत्येव सपल्लवानि ।
पादेन नापैक्षत सुन्दरीणां संपर्कमाशिञ्जितनूपुरेण ॥
असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् ।
क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राव् अवेदनाज्ञं कुलिशक्षतानाम् ॥
असूयको दन्दशूको निष्ठुरो वैरकृन्नरः ।
स कृच्छ्रं महदाप्नोति नचिरात् पापमाचरन् ॥
असूयया हतेनैव पूर्वोपायोद्यमैरपि ।
कर्त् णां गृह्यते संपत् सुहृद्भिर्मन्त्रिभिस्तथा ॥
असूयाविष्टे मनसि यदि संपत् प्रवर्तते ।
तुषाग्निं वायुसम्योगम् इव जानीहि सुव्रत ॥
असूयैकपदं मृत्युर् अतिवादः श्रियो वधः ।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥
असेकतोऽत्यन्तनिषेकतश्च शाखाविशोषं फलिनो निरूप्य ।
सप्ताहमात्रं शृतमेव सर्पिर् विडङ्गदुग्धाम्बु निषेचनीयम् ॥
असेवके चानुरक्तिर् दानं सप्रियभाषणम् ।
अनुरक्तस्य चिह्नानि दोषेऽपि गुणसंग्रहः ॥
असेवितेश्वरद्वारम् अदृष्टविरहव्यथम् ।
अनुक्तक्लीबवचनं धन्यं कस्यापि जीवितम् ॥
असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः ।
प्रमोदं वो दिश्यात् कपटबटुवेषापनयने त्वराशथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥
असौ गतः सौगत एव यस्मात् कुर्यान् निरालम्बनतां ममैव ।
सखि प्रियस्ते क्षणिकः किमन्यन् निरात्मकः शून्यतमः स वन्द्यः ॥
असौ गिरेः शीतलकन्दरस्थः पारावतो मन्मथचाटुदक्षः ।
धर्मालसाङ्गीं मधुराणि कूजन् संवीजते पक्षपुटेन कान्ताम् ॥
असौजन्यञ्चेतोभवसमुचितं भावयति तद् वृथा संसारेऽस्मिन्नहह समयं किं गमयसि ।
चिराद् भूयो भूयः कलयसि सखेदो भवसुखं ततो मन्ये त्यागात् प्रभवति परा निर्वृतिरिति ॥
असौ नास्तीवेन्दुः क्वचिदपि रविः प्रोषित इव ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितमिव ।
अहर्वा रात्रिर्वा द्वयमपि प्रलुप्तप्रविचयं घनैर्बद्धव्यूहैः किमिदमतिघोरं व्यवसितम् ॥
असौ बिभ्रत्ताम्रत्विषमुदयशैलस्य शिरसि स्खलन् प्रालेयांशुर्यदि भवति मत्तो हलधरः ।
तदानीमेतत् तु प्रतिनवतमालद्युतिहरं तमोऽपि व्यालोलं विगलति तदीयं निवसनम् ॥
असौभाग्यं धत्ते परमसुखभोगास्पदमयं विचित्रं तद्गेहं भवति पृथुकार्तस्वरमयम् ।
निविष्टः पल्यङ्के कलयति स कान्तारतरणं प्रसादं कोपं वा जननि भवती यत्र तनुते ॥
असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः ।
वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0