भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3763-3782

3763

असितवसनस्रग्संवीता घनागुरुसारवन् मृगमदमषीस्नाता जातां त्वमेव तमस्विनी ।
अभिसर सुखं दन्तोद्द्योतं न तन्वि विकासयेः श्वसितमथवा मुञ्चेश्चञ्चद्द्विरेफघनोद्गमम् ॥

3764

असितात्मा सुसंनद्धः समाविष्कृतचापलः ।
भुजंगकुटिलस् तस्या भ्रूविक्षेपः खलायते ॥

3765

असिद्धसाधनं सद्भिः शासनं दण्ड उच्यते ।
तं युक्त्यैव नयेद् दण्डं युक्तदण्डः प्रशस्यते ॥

3766

असिधारां विषं वह्निं समत्वे यः प्रपश्यति ।
मालासुधातुषाराणां स योगी कथ्यते बुधैः ॥

3767

असिधाराक्रमक्रीता वरमेकापि काकिणी ।
न परभ्रूविनिर्दिष्टा सागरान्तापि मेदिनी ॥

3768

असिधारापथे नाथ शत्रुशोणितपिच्छिले ।
आजगाम कथं लक्ष्मीर् निर्जगाम कथं यशः ॥

3769

असिधेनुरियं विभाति ते जितसर्वक्षितिपालमण्डला ।
प्रलये जगतीमिवाशितुं स्फुरती कालकरालजिह्वका ॥

3770

असिन्दूरेण सीमन्तो मा भून्नो योषितामिति ।
अतः परिहरन्त्याजाव् असिं दूरेण तेऽरयः ॥

3771

असिमात्रसहायस्य प्रभूतारिपराभवे ।
अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ॥

3772

असीव्यद् देहे स्वे पशुपतिरुमाङ्कं समघनो विगुप्तो गोपीभिर्दुहितरमयात् सा कमलभूः ।
यदादेशादेतज् जगदपि मृगीदृक्परवशं स वश्यः कस्य स्यादहह विषमो मन्मथभरः ॥

3773

असुखमथ सुखं वा कर्मणां पक्तिवेलास्व् अहह नियतमेते भुञ्जते देहभाजः ।
तदिह पुरत एव प्राह मौहुर्तिकश्चेत् कथय फलममीषामन्ततः किं ततः स्यात् ॥

3774

असुखैश्च विनालापो गुह्यस्य कथनं तथा ।
विपद्विमोक्षणं चैव मित्रतायाः फलत्रयम् ॥

3775

असुभिरशुभं त्यक्त्वा देहं निजं किल योगविद् विशति विशदं ज्ञानालोकात् परस्य कलेवरम् ।
नयनविवरैः सूक्ष्मैः साक्षादहो तव नैपुणं विशसि हृदयं द्रष्टुं स्पष्टं बहिश्च विचेष्टसे ॥

3776

असुभृतां वधमाचरति क्षमाद् वदति वाक्यमसह्यमसूनृतम् ।
परकलत्रधनान्यपि वाञ्छति न कुरुते किमु मद्यमदाकुलः ॥

3777

असुररचितप्रयत्नाद् विज्ञाता दिविरवञ्चना येन ।
संरक्षिता मतिमता रत्नवती वसुमती तेन ॥

3778

असुरसमरदक्षैर्वज्रसंधृष्टचापैर् अनुपमबलवीर्यैः स्वैः कुलैस्तुल्यवीर्यः ।
रघुरिव स नरेन्द्रो यज्ञविश्रान्तकोशो भव जगति गुणानां भाजनं भ्राजितानाम् ॥

3779

असुरसुरनरेशां यो न भोगेषु तृप्तः कथमिह मनुजानां तस्य भोगेषु तृप्तिः ।
जलनिधिजलपाने यो न जातो वितृष्णस् तृणशिखरगताम्भम्भःपानतः किं स तृप्येत् ॥

3780

असुरहितमप्यादित्योत्थं विपत्तिमुपागतं दितिसुतगुरुः प्राणैर्योक्तुं न किं कचवत् तमः ।
पठति लुठतीं कण्ठे विद्यामयं मृतजीवनीं यदि न वहते संध्यामौनव्रतव्ययभीरुताम् ॥

3781

असुरो हितमुपदिष्टः प्रह्लादो नारदेन गर्भस्थः ।
तत्त्वविदुषां वरोऽभूद्- धितोपदेशं सदा शृणुयात् ॥

3782

असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम् ।
अभिमुखीष्विव वाञ्छितसिद्धिषु व्रजति निर्वृतिमेकपदे मनः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc