महासुभाषितसंग्रह · श्लोक 3743-3762
असारे बत संसारे कर्मतन्त्रः शरीरिणाम् ।
जायन्ते प्रियसंयोगा वियोगे हृदयच्छिदः ॥
असारे संसारे विषमविषपाके नृपसुखे कृतान्तेनाचान्ते प्रकृतिचपले जीवितबले ।
ध्रुवापाये काये विषयमृगतृष्णाहतहृदः क्षरप्राणैः प्राणानहह परिमुष्णन्ति कुधियः ॥
असारे संसारे सुमतिशरणे काव्यकरणे यथेष्टं चेष्टन्ते कति न कवयः स्वस्वरुचयः ।
परं दुग्धस्निग्धं मधुररचनं यस्तु वचनं प्रसूते ब्रूते वा भवति विरलः कोऽपि सरलः ॥
असारो निर्गुणो वक्रश् चित्ररूपतयान्वितः ।
अवाप न चिराद् भ्रंशं शक्रचापः खलो यथा ॥
असावधाने पाण्डित्यं क्रयक्रीतं च मैथुनम् ।
भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥
असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि ।
उपैति शुष्यन् कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥
असावनुपनीतोऽपि वेदानधिजगे गुरोः ।
स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥
असावन्तश्चञ्चद्विकचनवलीलाब्जयुगल- स्तलस्फूर्जत्कम्बुर्विलसदलिसंघात उपरि ।
विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ते ॥
असावहं लोहमयी स यस्याः क्रूरः सखि प्रस्तर एष कान्तः ।
आकर्षकद्रावकचुम्बकेषु नैकोऽप्यसौ भ्रामक इत्यवैहि ॥
असावुदयमारूढः कान्तिमान् रक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥
असावुद्वेललावण्यरत्नाकरसमुद्भवः ।
जगद्विजयमाङ्गल्यशङ्खः कुसुमधन्वनः ॥
असावेकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन् कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः ।
पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां कटाक्षेभ्यो बिभ्यन्निभृतमिव चन्द्रोऽभ्युदयते ॥
असिः शरा वर्म धनुश्च नोच्चकैर् विविच्य किं प्रार्थितमीश्वरेण ते ।
अथास्ति शक्तिः कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥
असिजीवी मषीजीवी देवलो ग्रामयाजकः ।
धावकः पाचकश्चैव षड् विप्राः शूद्रजातयः ॥
असितखुरचतुष्कः श्यामलग्रन्थिपादः स्रवति करसमीपे मूत्रधारां सवेगाम् ।
दशनचलखलीनः कुक्कुटस्कन्धबन्धः किटिवरकठिनोरुर्दूरगः स्यात् तुरुङ्गः ॥
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥
असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु क्वणितकनककाञ्चीं मत्तहंसस्वनेषु ।
अधररुचिरशोभां बन्धुजीवे प्रियाणां पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥
असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः ।
पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेऽयमासीत् ॥
असितभुजगशिशुवेष्टितम् अभिनवमाभाति केतकीकुसुमम् ।
आयसवलयालंकृत- विषाणमिव दन्तिनः पतितम् ॥
असितमेकसुराशितमप्यमून् न पुनरेष विधुर्विशदं विषम् ।
अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0