भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3723-3742

3723

असह्यान्यपि सोढानि गदितान्यप्रियाण्यपि ।
स्थितः परगृहद्वारि तृष्णे निवृत्तिमाप्नुहि ॥

3724

असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥

3725

असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो न सङ्गाद् दौर्जन्यं न हि सुजनता कस्यचिदपि ।
प्ररूढे संसर्गे मणिभुजगयोर्जन्मजनिते मणिर्नाहेर्दोषान् स्पृशति न तु सर्पो मणिगुणान् ॥

3726

असाधु परिगन्तव्यं न च साधु च संवलम् ।
संवलं कुरु यत्नेन मरणं ध्रुवनिश्चयम् ॥

3727

असाध्यं नारभेत् प्राज्ञः अकार्यं नैव कारयेत् ।
अनृतं नैव जल्पेत अभक्ष्यं नैव भक्षयेत् ॥

3728

असाध्यं शत्रुमालोक्य दायादं तस्य भेदयेत् ।
राज्यकामं समर्थं च यथा रामो विभीषणम् ॥

3729

असाध्यं साधुमन्त्राणां तीव्रं वाग्विषमुत्सृजत् ।
द्विजिह्वं वदनं धत्ते दुष्टो दुर्जनपन्नगः ॥

3730

असाध्यमन्यथा दोषं परिच्छिद्य शरीरिणाम् ।
यथा वैद्यस्तथा राजा शस्त्रपाणिर्विषह्यति ॥

3731

असाध्यायाः सुखं सिद्धिः सिद्धायाश्चानुरञ्जनम् ।
रक्तायाश्च रतिः सम्यक् कामशास्त्रप्रयोजनम् ॥

3732

असामान्योल्लेखं विरसहतहेवाकिनमलं विधिं वन्दे निन्दाम्युत बत न जाने किमुचितम् ।
अनर्घं निर्माणं ललिततनु यस्येह भवती न यः कृत्वापि त्वां परिहरति सर्गव्यसनिताम् ॥

3733

असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् ।
अदर्पं कन्दर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥

3734

असारः संसारः सरसकदलीसारसदृशो लसद्विद्युल्लेखाचकितचपलं जीवितमिदम् ।
यदेतत् तारुण्यं नगगतनदीवेगसदृशम् अहो धार्ष्ट्यं पुंसां तदपि विषयान् धावति मनः ॥

3735

असारः सर्वतः सारो वाचा सारसमुच्चयः ।
वाचा सा चलिता येन सुकृतं तेन हारितम् ॥

3736

असारभूते संसारे सारं सारङ्गलोचना ।
तदर्थं धनमिच्छन्ति तत्त्यागे च धनेन किम् ॥

3737

असारभूते संसारे सारभूता नितम्बिनी ।
इति संचिन्त्य वै शंभुर् अर्धाङ्गे कामिनीं दधौ ॥

3738

असाराः सन्त्येते विरतिविरसा वाथ विषया जुगुप्सन्तां यद् वा ननु सकलदोषास्पदमिति ।
तथाप्यन्तस्तत्त्वप्रणिहितधियामप्यतिबलस् तदीयोऽनाख्येयः स्फुरति हृदये कोऽपि महिमा ॥

3739

असारे खलु संसारे सारं श्वशुरमन्दिरम् ।
क्षीराब्धौ च हरिः शेते शिवः शेते हिमालये ॥

3740

असारे खलु संसारे सारं श्वशुरमन्दिरम् ।
हरो हिमालये शेते विष्णुः शेते महोदधौ ॥

3741

असारे खलु संसारे सारमेतच्चतुष्टयम् ।
काश्यां वासः सतां सङ्गो गङ्गाम्भः शंभुसेवनम् ॥

3742

असारे खलु संसारे सुखभ्रान्तिः शरीरिणाम् ।
लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc