महासुभाषितसंग्रह · श्लोक 3703-3722
असमर्थं परित्यज्य समर्थाः परिभुञ्जते ।
नृपाणां नास्ति दायाद्यं वीरभोग्या वसुन्धरा ॥
असमये मतिरुन्मिषति ध्रुवं करगतैव गता यदियं कुहूः ।
पुनरुपैति निरुध्य निवास्यते सखि मुखं न विधोः पुनरीक्ष्यते ॥
असमर्थाः प्रकुर्वन्ति मुनयोऽप्यर्थसंचयम् ।
किं न कुर्वन्ति भूपाला येषां कोशवशाः प्रजाः ॥
असमर्थो भवेत् साधुर् निर्धनो ब्रह्मचार्यपि ।
व्याधिमान् देवपूजी च कुरूपा च पतिव्रता ॥
असमसमरसम्पल्लम्पटानां भटानाम् अवधिरवधि युद्धे येन हम्पीरवीरः ।
स किल सकलदृप्तक्षत्रनक्षत्रलक्ष्मी- हरणकिरणमाली कस्य न स्यान् नमस्यः ॥
असमसाहससुव्यवसायिनः सकललोकचमत्कृतिकारिणः ।
यदि भवन्ति न वाञ्छितसिद्धयो हतविधेरयशो न मनस्विनः ॥
असमाने समानत्वं भविता कलहे मम ।
इति मत्वा ध्रुवं मानी मृगात् सिंहः पलायते ॥
असमापितकृत्यसंपदां हतवेगं विनयेन तावता ।
प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः ॥
असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत् कृत्स्नं नो संध्यां भजते रविः ॥
असमैः समीयमानः समैश्च परिहीयमाणसत्कारः ।
अधुरि विनियुज्यमानस् त्रिभिरर्थपतिं त्यजति भृत्यः ॥
असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि ।
उपलभ्याप्यविदितं विदितं चाप्यनुष्ठितम् ॥
असहायः पुमानेकः कार्यान्तं नाधिगच्छति ।
तुषेणापि विनिर्मुक्तस् तण्डुलो न प्ररोहति ॥
असहायः समर्थोऽपि तेजस्वी किं करिष्यति ।
रामः सुग्रीवसाहाय्यात् लङ्कां निर्दग्धवान् पुरा ॥
असहायः समर्थोऽपि तेजस्व्यपि करोति किम् ।
निवाते पतितो वह्निः स्वयमेवोपशाम्यति ॥
असहायः समर्थोऽपि न कार्यं कर्तुमर्हति ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥
असहायः सहायार्थी मामनुध्यातवान् ध्रुवम् ।
पीड्यमानः शरैस्तीक्ष्णैर् द्रोणद्रौणिकृपादिभिः ॥
असहायस्य कार्याणि सिद्धिं नायान्ति कानिचित् ।
तस्मात् समस्तकार्येषु सहायो भूपतेर्गतिः ॥
असहायोऽसमर्थो वा तेजस्वी किं करिष्यति ।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यते ॥
असहाश्चैव विज्ञेयाः प्रभावन्तो विदेहजाः ।
अङ्गदेशोद्भवास्तीक्ष्णाः सुहस्ताः सुदृढास्तथा ॥
असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही ।
न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0