महासुभाषितसंग्रह · श्लोक 3683-3702
असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा ।
युवत्यः पापसंकल्पाः क्षणमात्राद् विरागिणः ॥
असत्यसंधस्य सतश् चलस्यास्थिरचेतसः ।
नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥
असत्यस्य वणिग्मूलं शाखास्तस्य वराङ्गनाः ।
कायस्थाः पत्रपुष्पाणि फलानि द्यूतकारिणः ॥
असत्याः सत्यसंकाशाः सत्याश्चासत्यरूपिणः ।
दृश्यन्ते विविधा भावास् तस्माद् युक्तं परीक्षणम् ॥
असत्या च हता वाणी तथा पैशुन्यवादिनी ।
संदिग्धोऽपि हतो मन्त्रो व्यग्रचित्तो हतो जपः ॥
असत्यात्मगुणे शस्त्रं हस्ताभ्यां विनिवार्यते ।
एषापि न गतिः क्षेम्या न चान्या विद्यते क्वचित् ॥
असत्येनैव जीवन्ति वेश्याः सत्यविवर्जिताः ।
एताः सत्येन नश्यन्ति मद्येनेव कुलाङ्गनाः ॥
असत्संपर्कदोषेण अधस्ताद् यान्ति साधवः ।
मार्गस्तिमिरदोषेण समोऽपि विषमायते ॥
असत्सङ्गाद् गुणज्ञोऽपि विषयासक्तमानसः ।
अकस्मात् प्रलयं याति गीतरक्तो यथा मृगः ॥
असदृशजनेषु याच्ञा महतां नहि लाघवाय सुहृदर्थे ।
हरिरपि पाण्डुसुतेभ्यः स्वयमर्थी धार्तराष्ट्रेषु ॥
असद्धर्मस्त्वयं स्त्रीणाम् अस्माकं भवति प्रभो ।
पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ॥
असद्भिः सेवितो राजा स्वयं सन्नपि दूष्यते ।
किं सेव्यो भोगिसंवीतो गन्धवानपि चन्दनः ॥
असद्भिरसतामेव भुज्यन्ते धनसंपदः ।
फलं किम्पाकवृक्षस्य ध्वाङ्क्षा भक्षन्ति नेतरे ॥
असद्वृत्तो नायं न च सखि गुणैरेष रहितः प्रियो मुक्ताहारस्तव चरणमूले निपतितः ।
गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिताम् उपायो नास्त्यन्यो हृदयपरितापोपशमने ॥
असन्तोऽभ्यर्थिताः सद्भिः किंचित्कार्यं कदाचन ।
मन्यन्ते सन्तमात्मानम् असन्तमपि वितश्रुम् ॥
असन्तो ये निवर्तन्ते वेदेभ्य इव नास्तिकाः ।
नरकं भजमानास्ते प्रतिपद्यन्ति किल्बिषम् ॥
असन्थितपदा सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा ।
क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् ॥
असभ्यः पिशुनश्चैव कृतघ्नो दीर्घवैरिणः ।
चत्वारः कर्मचण्डालाः जातिचण्डालपञ्चमाः ॥
असमग्रविलोकितेन किं ते दयितं पश्य वरोरु निर्विशङ्कम् ।
नहि जातु कुशाग्रपीतमम्भः सुचिरेणापि करोत्यपेततृष्णम् ॥
असमञ्जसमसमञ्जस- मसञ्जसमेतदापतितम् ।
वल्लवकुमारबुद्ध्या हरि हरि हरिरीक्षतः कुतुकात् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0