भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3663-3682

3663

असतां धर्मबुद्धिश्चेत् सतां संतापकारणम् ।
उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ॥

3664

असतां प्रग्रहः कामः कोपश्चावग्रहः सताम् ।
व्यसनं दोषबाहुल्याद् अत्यन्तमुभयं मतम् ॥

3665

असतां बत सत्तापि न न्यायानुगता यदा ।
ततस्तेभ्योर्थपूर्त्त्याशा सुधालिप्सेव भोगिनः ॥

3666

असतां सङ्गदोषेण सती याति मतिर्भ्रमम् ।
एकरात्रिप्रवासेन काष्ठं मुञ्जे प्रलम्बितम् ॥

3667

असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् ।
दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ॥

3668

असतां सङ्गमुत्सृज्य सत्सु सङ्गं समाचरेत् ।
असतां सङ्गदोषेण माण्डव्यः शूलमाप्तवान् ॥

3669

असतां सहजो भावश् छन्नः केनापि हेतुना ।
संस्कार इव बीजानां फलेन सह जायते ॥

3670

असतामुपभोगाय दुर्जनानां विभूतयः ।
पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते ॥

3671

असता सह सङ्गेन को न यात्यधमां गतिम् ।
पयोऽपि शौण्डनीहस्ते मद्यमित्यभिधीयते ॥

3672

असतीचरितं तद्वद् वसन्तादेश्चवर्णनम् ।
ग्रीष्मादेर्वर्णनं तद्वद् वर्षादेरपि वर्णनम् ॥

3673

असती भवति सलज्जा क्षारं नीरं च शीतलं भवति ।
दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥

3674

असतोऽपि भवति गुणवान् सद्भ्योऽपि परं भवन्त्यसद्वृत्ताः ।
पङ्कादुदेति कमलं क्रिमयः कमलादपि भवन्ति ॥

3675

असतो वा सतो वापि स्वयं स्वान् वर्णयन् गुणान् ।
हास्यतां याति शक्रोऽपि किं पुनः प्राकृतो जनः ॥

3676

असत्कार्यरतोऽधीर आरम्भी विषयी च यः ।
स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥

3677

असत्प्रतिग्रहीता च नरके यात्यधोमुखे ।
एको मिष्टान्नभुग् यः स याति पूयवहं नरः ॥

3678

असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा ।
चत्वारि वाचा राजेन्द्र न जल्पेन् नानुचिन्तयेत् ॥

3679

असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः ।
भर्तारं नानुमन्यंते विनिपातगतं स्त्रियः ॥

3680

असत्यता निष्ठुरताकृतज्ञता भयं प्रमादोऽलसता विषादिता ।
वृथाभिमानोऽपि च दीर्घसूत्रता तथाङ्गनाक्षादि विनाशनं श्रियः ॥

3681

असत्यमप्रत्ययमूलकारणं कुवासनासद्मसमृद्धिवारणम् ।
विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥

3682

असत्यमेतद् विदितं समस्तम् अकार्यकारीति मृषा प्रपञ्चः ।
कुचापलापक्रममेव कर्तुम् आच्छादनं ते हृदयस्य शश्वत् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc