महासुभाषितसंग्रह · श्लोक 3643-3662
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥
असंशयं न्यस्तमुपान्तरक्ततां यदेव रोद्धुं रामणीभिरञ्जनम् ।
हृतेऽपि तस्मिन् सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
असंशयं विजानीहि काले सर्वं फलिष्यति ।
धृतिं धारय विस्रब्धं भवेत् सर्वं समञ्जसम् ॥
असकलकलिकाकुलीकृतालि- स्खलनविकीर्णविकासिकेशराणाम् ।
मरुदवनिरुहां रजो वधूभ्यः समुपहरन् विचकार कोरकाणि ॥
असकलनयनावलोकनेन स्मितपरिहासमनोहरैर्वचोभिः ।
कमलमुखि मुरारिरेवमेवं कथय कियन्ति दिनानि वञ्चनीयः ॥
असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः ।
इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥
असकृदसकृन्नष्टां नष्टां मृगो मृगतृष्णिकां श्रमपरिगतोऽप्युत्पक्ष्माक्षः परैति पुनः पुनः ।
गणयति न तन्मायातोयं हतः सलिलाशया भवति हि मतिस्तृष्णान्धानां विवेकपराङ्मुखी ॥
असकृन् न नेऽति सावधि- निषेधबोधिश्रुतिर्मया कलिता ।
गमयति परमनवरतं या तमखण्डार्थरूपमानन्दम् ॥
असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥
असकृद् युधि विजितादपि भीतो बार्हद्रथाज्जले दुर्गम् ।
कृत्वा हरिर्न्यवात्सीद् विजितोऽप्याशङ्कनीयोऽरिः ॥
असकृन् न वदेदाशां प्रार्थयेद् देवतां सकृत् ।
नालायनी पञ्च पतीन् प्रापोच्चार्य पुनः पुनः ॥
असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।
गुणानुरागादिव सख्यमीयिवान् न बाधतेऽस्य त्रिगणः परस्परम् ॥
असङ्गसंगदोषेण सत्याश्च मतिविभ्रमः ।
एकरात्रप्रसङ्गेन काष्ठघण्टाविडम्बना ॥
असज्जनः सज्जनसङ्गिसङ्गात् करोति दुःसाध्यमपीह साध्यम् ।
पुष्पाश्रयाच्छंभुशिरोऽधिरूढा पिपीलिका चुम्बति चन्द्रबिम्बम् ॥
असज्जनायाशु वरं न दद्यात् प्रीतितो नृपः ।
वरं भस्मासुरायेशः दत्त्वा नीलिफलं गतः ॥
असज्जनाश्चेन् मधुरैर्वचोभिः शक्यन्त एव प्रतिकर्तुमार्यैः ।
तत्केतकीरेणुभिरम्बुराशेर् बन्धक्रियायामपि कः प्रयासः ॥
असज्जनेन संपर्काद् अनयं यान्ति साधवः ।
मधुरं शीतलं तोयं पावकं प्राप्य तप्यते ॥
असतः श्रीमदान्धस्य दारिद्र्यं परमाञ्जनम् ।
आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥
असतां च परिक्षेपः सतां च परिगूहनम् ।
अभूतानां च हिंसानाम् अधर्माणां च वर्जनम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0