भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3623-3642

3623

असंदधानो मानान्धः समेनापि हतो भृशम् ।
आमकुम्भमिवाभित्त्वा नावतिष्ठेत शक्तिमान् ॥

3624

असंदिग्धमना भूत्वा वदेदिक्षुरसो यथा ।
विक्षुब्धो वचसा यो हि वाक्यशल्येन हन्यते ॥

3625

असंपत्तौ परो लाभो गुह्यस्य कथनं तथा ।
आपद्विमोक्षणं चैव मित्रस्यैतत् फलत्रयम् ॥

3626

असंपन्नः कथं बन्धुर् असहिष्णुः कथं प्रभुः ।
अनात्मवित् कथं विद्वान् असंतुष्टः कथं सुखी ॥

3627

असंपादयतः कंचिदर्थं जातिक्रियागुणैः ।
यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥

3628

असंप्राप्तरजा गौरी प्राप्ते रजसि रोहिणी ।
अव्यञ्जना भवेत् कन्या कुचहीना च नग्निका ॥

3629

असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥

3630

असंभवगुणस्तुत्या जायते स्वात्मनस्त्रपा ।
कर्णिकारं सुगन्धीति वदन् को नोपहस्यते ॥

3631

असंभाव्यं न वक्तव्यं प्रत्यक्षमपि दृश्यते ।
शिला तरति पानीयं गीतं गायति वानरः ॥

3632

असंभाष्यं न भाषेत भाषसे यदि तत्तथा ।
परेषां हि समुद्वेगे नात्मनश्च शुभं फलम् ॥

3633

असंभृतं मण्डनमङ्गयष्टेर् अनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात् परं साथ वयः प्रपेदे ॥

3634

असंभेद्यः शुचिर्दक्षः कृतान्नस्य परीक्षकः ।
सूदानां च विशेषज्ञः सूदाध्यक्षो विधीयते ॥

3635

असंभोगेन सामान्यं कृपणस्य धनं परैः ।
अस्येदमिति संबन्धो हानौ दुःखेन गम्यते ॥

3636

असंभ्रमो विलज्जत्वम् अवज्ञा प्रतिवादिनि ।
हासो राज्ञः स्तवश्चेति पञ्चैते जयहेतवः ॥

3637

असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात् प्रपन्नः ।
बद्धश्चिरं तिष्ठतु सुन्दरीणाम् आरेचितभ्रूचतुरैः कटाक्षैः ॥

3638

असंमाने तपोवृद्धिः संम्मानाच्च तपःक्षयः ।
पूजया पुण्यहानिः स्यान् निन्दया सद्गतिर्भवेत् ॥

3639

असंमुखालोकनमाभिमुख्यं निषेध एवानुमतिप्रकारः ।
प्रत्युत्तरं मुद्रणमेव वाचां नवाङ्गनानां नव एव पन्थाः ॥

3640

असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।
तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥

3641

असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः ।
निःसंशयं विपद्यन्ते भिन्नप्लव इवोदधौ ॥

3642

असंवृताकारतया भिन्नमन्त्रस्य भूपतेः ।
सकृच्छिद्रघटस्येव न तिष्ठत्युदयोदकम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc