महासुभाषितसंग्रह · श्लोक 3603-3622
अष्टौ मासान् यथादित्यस् तोयं हरति रश्मिभिः ।
तथा हरेत् करं राष्ट्रान् नित्यमर्कव्रतं हि तत् ॥
अष्टौ यदा तु दृश्यन्ते समन्ताद् देवयोनयः ।
उपसर्गं तमित्याहुर् दैवमुन्मत्तवद् बुधाः ॥
अष्टौ यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तं केसरजालमर्ककिरणा भृङ्गाः पयोदावली ।
नालं शेषमहोरगः प्रविततं वारांनिधेर्लीलया तद्वः पातु समुद्धरन् कुवलयं क्रोडाकृतिः केशवः ॥
अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः पञ्चाशन्मधुगन्धमत्तमधुपाः क्रोधोद्धताः सिन्धुराः ।
अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं दत्तं पाण्ड्यनृपेण यौतकमिदं वैतालिकायार्प्यताम् ॥
असंकल्पाज्जयेत् कामं क्रोधं कामविवर्जनात् ।
अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥
असंकल्पितमेवेह यदकस्मात् प्रवर्तते ।
निवर्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ॥
असंख्यपुष्पोऽपि मनोभवस्य पञ्चैव बाणार्थमयं ददाति ।
एवं कदर्यत्वमिवावधार्य सर्वस्वमग्राहि मधोर्वधूभिः ॥
असंख्याः परदोषज्ञा गुणज्ञा अपि केचन ।
स्वयमेव स्वदोषज्ञा विद्यन्ते यदि पञ्चषाः ॥
असंगतेनोन्नतिमागतेन चलेन वक्रेण मलीमसेन ।
सा दुर्जनेनेव समस्तमेतं प्रबाधते भ्रूयुगलेन लोकम् ॥
असंगृहीतस्य पुनर् मन्त्रस्य शृणु यत्फलम् ।
अहीनं धर्मकामाभ्याम् अर्थं प्राप्नोति केवलम् ॥
असंचयादपूर्वस्य क्षयात् पूर्वार्जितस्य च ।
कर्मणो बन्धमाप्नोति शारीरं न पुनः पुनः ॥
असंतुष्टस्य विप्रस्य तेजो विद्या तपो यशः ।
स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥
असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभृतः ।
सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥
असंतुष्टाश्च्युताः स्थानान् मानात् प्रत्यवरोपिताः ।
स्वयं चोपहृता भृत्या ये चाप्युपहताः परैः ॥
असंतुष्टोऽसकृल्लोकान् आप्नोत्यपि सुरेश्वरः ।
अकिंचनोऽपि संतुष्टः शेते सर्वाङ्गविज्वरः ॥
असंतोषः परं दुःखं संतोषः परमं सुखम् ।
सुखार्थी पुरुषस् तस्मात् संतुष्टः सततः भवेत् ॥
असंतोषः परं पापम् इत्याह भगवान् हरिः ।
लोभः पापस्य बीजोऽयं मोहो मूलं च तस्य वै ।
असत्यं तस्य हि स्कन्धो महाशाखा सुविस्तरा ॥
असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः ।
असन्तोषस्य नास्त्यन्तस् तुष्टिस्तु परमं सुखम् ॥
असंतोषोऽसुखायैव लोभादिन्द्रियविभ्रमः ।
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥
असंत्यागात् पापकृतामपापांस् तुल्यो दण्डः स्पृशते मिश्रभावात् ।
शुष्केणार्द्रं दह्यते मिश्रभावात् तस्मात् पापैः सह संधिं न कुर्यात् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0