महासुभाषितसंग्रह · श्लोक 3583-3602
अष्टमे द्वादशे वापि शाकं यः पचते गृहे ।
कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः ॥
अष्टाङ्गयोगपरिशीलनकीलनेन दुःसाधसिद्धिसविधं विदधद् विदूरे ।
आसादयन्नभिमतामधुना विवेक- ख्यातिं समाधिधनमौलिमणिर्विमुक्तः ॥
अष्टाङ्गुलस्य कथितो वायोर्मानो विचक्षणैः ।
चतुरङ्गुलमानं च तेजस्तत्त्वं निगद्यते ॥
अष्टादश तथा मध्ये हीने चैव चतुर्दश ।
सप्ताङ्गुलः खुरः प्रोक्त उत्तमाश्वस्य पण्डितैः ॥
अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥
अष्टादशापि स्मृतयो वदन्ति यस्यापराधः खलु तस्य दण्डः ।
स्वस्यापराधः खलु नाभिमूले शिरः कुतो मुण्डयते मृगाक्षि ॥
अष्टानां लोकपालानां संभवत्यंशतो नृपः ।
तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥
अष्टाभिः किल दण्डनीतिनिपुणैः सत्प्राड्विवाकैः समं मध्येसौधमनुत्तमासनगतः कार्याणि कुर्वन् नृणाम् ।
विष्णुर्भूपवपुर्विधाय किमसौ दिक्पालयुक् पालयत्य् एवं भ्रान्तिमतो मनाङ् न कुरुते कास्कानयं माधवः ॥
अष्टावङ्गानि योगस्य यमो नियम आसनम् ।
प्राणायामः प्रत्याहारो धारणा ध्यानतन्मयः ॥
अष्टाविमानि हर्षस्य नवनीतानि भारत ।
वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥
समागमश्च सखिभिर् महांश्चैव धनागमः ।
पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने ॥
समये च प्रियालापः स्वयूथेषु च संनतिः ।
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥
अष्टोत्तरशतं श्लोकं चाणक्येन यथोदितम् ।
यस्य विज्ञानमात्रेण न् णां प्रज्ञा प्रवर्धते ॥
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्भ्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥
अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि ।
चत्वार्येषामन्ववेतानि सद्भिश् चत्वार्येषामन्ववयन्ति सन्तः ॥
यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः ।
दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयन्ति सन्तः ॥
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥
नैतान् स्मरति कृत्येषु याचितश् चाभ्यसूयति ।
एतान् दोषान् नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0