भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3563-3582

3563

अश्वा यस्य जयस्तस्य यस्याश्वास्तस्य मेदिनी ।
अश्वा यस्य यशस् तस्य यस्याश्वास् तस्य काञ्चनम् ॥

3564

अश्वारूढं पयःपानं गजारूढं तु मैथुनम् ।
शिबिकीमर्दनं चैव पादचारी तु भोजनम् ॥

3565

अश्वारूढं यतिं दृष्ट्वा खट्वारूढां रजस्वलाम् ।
सकेशां विधवां दृष्ट्वा सचैलं स्नानमाचरेत् ॥

3566

अश्वाश्चतुष्कोटिमिता लक्षाण्येकादशैव च ।
सप्तत्रिंशत्सहस्राणि तथा शतचतुष्टयम् ॥

3567

सप्ततिश्चैव संख्याताः प्रोच्यन्ते पत्तयस्ततः ।
षट्कोट्योऽशीतिलक्षाणि पञ्चाधिकमितानि च ॥

3568

द्विषष्टि च सहस्राणि तथा शतचतुष्टयम् ।
पञ्चाशदिति संख्याता महाक्षौहिनिका बुधैः ॥

3569

अश्विनीमैत्ररेवत्यो मृगो मूलं पुनर्वसुः ।
पुष्यो ज्येष्ठा तथा हस्तः प्रस्थाने श्रेष्ठ उच्यते ॥

3570

अश्विनी सूयते वत्सं कामधेनुस्तुरंगमम् ।
तथैव सागरो वह्निं यथा राजा तथा प्रजा ॥

3571

अश्वीये यमवाहनस्य नकुलस्याशीविषाणां कुले मार्जारस्य च मूषकेषु घटते या प्रीतिरात्यन्तिकी ।
क्षीणेऽर्थे विधुरेषु बन्धुषु दृढे लोकापवादे शनैर् ज्ञेया कामिजनेषु सैव गणिकावर्गस्य नैसर्गिकी ॥

3572

अश्वे जवो वृषे धौर्यं मणौ कान्तिः क्षमा नृपे ।
हावभावौ च वेश्यायां गायके मधुरस्वरः ॥

3573

दातृत्वं धनिके शौर्यं सैनिके बहुदुग्धता ।
गोषु दमस्तपस्विषु विद्वत्सु वावदूकता ॥

3574

सभ्येष्वपक्षपातस्तु तथा साक्षिषु सत्यवाक् ।
अनन्यभक्तिर्भृत्येषु सुहितोक्तिश्च मन्त्रिषु ॥

3575

मौनं मूर्खेषु च स्त्रीषु पातिव्रत्यं सुभूषणम् ।
महादुर्भूषणं चैतद् विपरीतममीषु च ॥

3576

अश्वैर्यानं यानं स्त्रीभिर् लीलैव प्रोच्यते लीला ।
मांसां भुक्तं भुक्तं चान्यद् अयानमलीलाभुक्तम् ॥

3577

अष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरंदरदिनकररुद्राः ।
न त्वं नाहं नायं लोकस् तदपि किमर्थं क्रियते शोकः ॥

3578

अष्टधा देवतायोनिस् तिर्यग्योनिश्च पञ्चधा ।
एकधा मानुषी योनिर् इमे भूताश्चतुर्दश ॥

3579

अष्टपादश्चतुष्कर्णो द्विमुखी द्विमुखस्तथा ।
राजद्वारे पठेद् घोरो न च देवो न राक्षसः ॥

3580

अष्टमं ब्रह्मरन्ध्रं स्यात् परं निर्वाणसूचकम् । तद्ध्यात्वा सूचिकाग्राभं धूमाकारं विमुच्यते ।
तच्च जालंधरं ज्ञेयं मोक्षदं लीनचेतसाम् ॥ अष्टमी च अमावास्या वर्जनीया चतुर्दशी ।

3581

पूर्णिमार्धदिनं यावन् निषिद्धा सर्वकर्मसु ॥

3582

अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुर्दशी ।
आमावास्योऽभयं हन्ति प्रतिपत् पाठनाशिनी ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc