भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3543-3562

3543

अश्वत्थचलपत्राग्रलीनतोयकणोपमे ।
स्थिराशा जीविते यस्य तत्समो नास्त्यचेतनः ॥

3544

अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश चिञ्चिणीकाः ।
कपित्थबिल्वामलकत्रयं च पञ्चाम्रवापी नरकं न पश्येत् ॥

3545

अश्वत्थस्य महत्त्वं को ननु वक्तुं नरः प्रभवेत् ।
सवितरि यत्रालक्ष्मीर् मन्दे लक्ष्मीरमन्दास्ते ॥

3546

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥

3547

अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् ।
पुनरनुतापमवापत् पापं कृत्वानुतप्येत ॥

3548

अश्वपृष्ठं गजस्कन्धो नारीणां च पयोधरः ।
दन्तधावनशस्त्रं च यथा स्थूलं तथा सुखम् ॥

3549

अश्वप्रशंसा विख्याता धनुर्वेदस्ततःपरम् ।
गान्धर्वशास्त्रमपरं वृक्षायुर्वेद एव च ॥

3550

अश्वप्लुतं वासवगर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् ।
अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कृतो मनुष्यः ॥

3551

अश्वमध्ये कृतरवा शिवा युद्धप्रपञ्चकृत् ।
शिवा सप्तस्वरा ग्राह्या बहुशब्दाश्च निष्फलाः ॥

3552

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अत्यरिच्यत सत्यं च इति वेदविदो विदुः ॥

3553

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥

3554

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
तुलयित्वा तु पश्यामि सत्यमेवातिरिच्यते ॥

3555

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ॥

3556

अश्वमेधसहस्रस्य फलं सत्यं तुलान्तरे ।
धृत्वा संलोड्यते राजन् सत्ये भवति गौरवम् ॥

3557

अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ।
नासौ पदमवाप्नोति मद्भक्तैर् यदवाप्यते ॥

3558

अश्वयानं गजं मत्तं गावश्चैव प्रसूतिकाः ।
तथा चान्तःपुरे दासीं दूरतः परिवर्जयेत् ॥

3559

अश्वशालां समासाद्य यदान्तर्मधुमक्षिकाः ।
मधुजालं प्रबध्नन्ति म्रियन्तेऽश्वास्तदा ध्रुवम् ॥

3560

अश्वस्य लक्षणं वेगो मदो मातङ्गलक्षणम् ।
चातुर्यं लक्षणं नार्या उद्योगः पुरुषलक्षणम् ॥

3561

अश्वानां च पताकानां बालानां पण्ययोषिताम् ।
विदूषकपटानां च चापल्यमतिमण्डनम् ॥

3562

अश्वा नागाः स्यन्दनानां च सङ्घा मन्त्राः सिद्धा दैवतं चानुकूलम् ।
एतान्याहुः साधनानि स्म राज्ञां येभ्यश्चेयं बुद्धिरुत्कृष्यते मे ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc