महासुभाषितसंग्रह · श्लोक 3523-3542
अश्मातकस्य वामे बदरी वा दृश्यतेऽहिनिलयो वा ।
षड्भिरुदग्वास्य करैः सार्धे पुरुषत्रये तोयम् ॥
अश्मानमप्युपायेन लोहं वा जरयेन् नरः ।
न तु कश्चिद् उपायोऽस्ति ब्रह्मस्वं येन जीर्यते ॥
अश्माप्यहृदयो यस्य गुणसारं परीक्षते ।
उचितैव सुवर्णस्य तस्याग्निपतने रुचिः ॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह ॥
अश्रद्धादर्शनं भान्तिर् दुःखं च त्रिविधं ततः ।
दौर्मनस्यमयोग्येषु विषयेषु च योगता ॥
अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि यद् भवेत् ।
यथा वानरसंगीतं तथैव प्लवते शिला ॥
अश्रान्तं दृढयन्त्रणेन कुचयोरत्यक्तकाठिन्ययोर् आबद्धस्फुटमण्डलोन्नतिमिलच्चोलं विमुच्योरसः ।
नीवीविच्छुरितं विधाय तममुं वामस्तनालम्बिनीं वेणीं पाणिनखाञ्चलैः शिथिलयत्याक्रम्य पीठं पदा ॥
अश्रान्तविश्राणितयज्ञयूप- स्तम्भावलीर्द्रागवलम्बमानः ।
यस्य स्वभावाद् भुवि संचचार कालक्रमादेकपदोऽपि धर्मः ॥
अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवा- जिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना ।
पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ॥
अश्रान्तिर्बन्धुतां धत्ते कष्टं नष्टस्य नश्वरः ।
स्कन्धेन पङ्गुना पङ्गुर् नहि वर्त्मनि नीयते ॥
अश्रावि भूमिपतिभिः क्षणवीतनिद्रैर् अश्नन् पुरो हरितकं मुदमादधानः ।
ग्रीवाग्रलोलकलकिङ्किणिकानिनाद- मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥
अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः ।
अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव ॥
अश्रुतमिव खलजल्पितम् अदृष्टमिव गुरुमुखेन्दुमालिन्यम् ।
अगणितनिजापमानं भामिनि भवदर्थमच्युतः सहते ॥
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।
अर्थाश्चाकर्मणा प्रेप्सुर् मूढ इत्युच्यते बुधैः ॥
अश्रुभिः पाद्यमाकल्प्य प्रणीय हृदयासनम् ।
उपेते दयिते कान्ता परिष्वङ्गमुपानयत् ॥
अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
अजापुत्रं बलिं दद्याद् देवो दुर्बलघातकः ॥
अश्वं स्नातं गजं मत्तं वृषभं काममोहितम् ।
शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥
अश्वः सुप्तो गजो मत्तो गावः प्रथमसूतिकाः ।
अन्तःपुरगतो राजा दूरतः परिवर्जयेत् ॥
अश्वगन्धापलं त्रिंशच् चूर्णयित्वा विचक्षणः ।
वृद्धदारुकचूर्णेन समभागं च कारयेत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0