महासुभाषितसंग्रह · श्लोक 3503-3522
अशुद्धा तु भवेन् नारी यावच्छल्यं न मुञ्चति ।
निःसृते तु ततः शल्ये रजसा शुध्यते ततः ॥
अशुद्धीनां तु सर्वासाम् आलयाः कुत्सिताः स्त्रियः ।
सदा शौचं न कुर्वन्ति भुञ्जतेऽन्नं तथाविधाः ॥
अशुभपुषि कलावप्यप्रमत्ताः स्वधर्माद् अनुदिनमुपकारानाचरन्ते बुधानाम् ।
बहुजनपरिपुष्टा बद्धदीक्षास्त एते तनुसुखमपि हित्वा तन्वते राजसेवाम् ॥
अशुभोदये जनानां नश्यति बुद्धिर्न विद्यते रक्षा ।
सुहृदोऽपि सन्ति रिपवो विषमविषं जायतेऽप्यमृतम् ॥
अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः ।
यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥
अशेषचक्षुःश्रवणं प्रतिकूलो भवन्नपि ।
विनतानन्दहेतुर्यः स पुमानाप्तनन्दनः ॥
अशेषदोषापगमप्रकाश- मित्रागमोत्साहमहोत्सवार्हम् ।
विकासशोभां जनयत्यजस्रं धनं जनानां दिनमम्बुजानाम् ॥
अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता ।
अनेकदुःखाहतलोकगोप्ता त्वसौ हनूमांस्तव सौख्यकर्ता ॥
अशेषविघ्नप्रतिषेधदक्ष- मन्त्राक्षतानामिव दिङ्मुखेषु ।
विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिभाननस्य ॥
अशोकनिर्भर्त्सितपद्मरागम् आकृष्टहेमद्युतिकर्णिकारम् ।
मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥
अशोके शोकार्तः किमसि बकुलेऽप्याकुलमना निरानन्दः कुन्दे सह च सहकारैर्न रमसे ।
कुसुम्भे विश्रम्भं यदिह भजसे कण्टकशतैर् असंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः ॥
अशोच्यः शोचते शोच्यं किं वा शोच्यो न शोच्यते ।
कश्च कस्येह शोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ॥
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥
अशोच्यानीह भूतानि यो मूढस्तानि शोचति ।
तद्दुःखाल्लभते दुःखं द्वावनर्थौ निषेवते ॥
अशोच्यो निर्धनः प्राज्ञोऽशोच्यः पण्डितबान्धवः ।
अशोच्या विधवा नारी पुत्रपौत्रप्रतिष्ठिता ॥
अश्नाति यः संस्कुरुते निहन्ति ददाति गृह्णात्यनुमन्यते च ।
एते षडप्यत्र विनिन्दनीया भ्रमन्ति संसारवने निरन्तम् ॥
अश्नाति यो मांसमसौ विधत्ते वधानुमोदं त्रसदेहभाजाम् ।
गृह्णाति रेपांसि ततस्तपस्वी तेभ्यो दुरन्तं भवमेति जन्तुः ॥
अश्नाभ्याच्छादयामीति प्रापश्यन् पापपूरुषः ।
नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥
अश्नीत पिबत खादत जाग्रत संविशत तिष्ठत वा ।
सकृदपि चिन्तयताह्नः सावधिको देहबन्ध इति ॥
अश्मना साधयेल्लोहं लोहेनाश्मानमेव च ।
बिल्बानिव करे बिल्वैर् म्लेच्छान् म्लेच्छैः प्रसाधयेत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0