भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3483-3502

3483

अशान्तहुतभुक्शिखाकवलितं जगन्मन्दिरं सुखं विषमवातभुग्नसनवच्चलं कामजम् ।
जलस्थशशिचञ्चला भुवि विलोक्य लोकस्थितिं विमुञ्चत जनाः सदा विषयमूर्छनां तत्त्वतः ॥

3484

अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरैर् गतच्छायः कायश्चिरविरसरूक्षाशनतया ।
अनिद्रा मन्दोऽग्निर्नृपसलिलचौरानलभयात् कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥

3485

अशाश्वतमिदं सर्वं चिन्त्यमानं हि भारत ।
कदलीसंनिभो लोकः समो ह्यस्य न विद्यते ॥

3486

अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः ।
तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥

3487

अशास्त्रचक्षुनृपतिर् अन्ध इत्यभिधीयते ।
वरमन्धो न चक्षुष्मान् मदादाक्षिप्तसत्पथः ॥

3488

अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।
अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥

3489

अशिक्षितानां काव्येषु शास्त्राभ्यासो निरर्थकः ।
किमस्त्यनुपनीतस्य वाजपेयादिभिर्मखैः ॥

3490

अशिथिलपरिस्पन्दः कुन्दे तथैव मधुव्रतो नयनसुहृदो वृक्षाश्चैते न कुड्मलशालिनः ।
दलति कलिका चौती नास्मिंस्तथा मृगचक्षुषाम् अथ च हृदये मानग्रन्थिः स्वयं शिथिलायते ॥

3491

अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिः स्तनेन ।
हृषिततनुरुहा भुजेन भर्तुर् मृदुममृदु व्यतिविद्धमेकबाहुम् ॥

3492

अशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः ।
असम्भाष्यश्च कर्तव्यस् तन् मनोरनुशासनम् ॥

3493

राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता ।
आचक्षाणेन तत् स्तेयम् एवंकर्मास्मि शाधि माम् ॥

3494

अशिष्यं शास्ति यो राजन् यश्च शून्यमुपासते ।
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥

3495

अशीतास्तरणो माघे फाल्गुने पशुपक्षिणौ ।
चैत्रे जलचराः सर्वे वैशाखे नरवानरौ ॥

3496

अशीतेनाम्भसा स्नानं पयःपानं वराः स्त्रियः ।
एतद्वो मानुषाः पथ्यं स्निग्धमुष्णं च भोजनम् ॥

3497

अशीमहि वयं भिक्षाम् आशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥

3498

अशीला भिन्नमर्यादा नित्यसंकीर्णमैथुनाः ।
अल्पायुषो भवन्तीह तथा निरयगामिनः ॥

3499

अशुचितानिलयं प्रलयं श्रियाम् अयशसां विभवं प्रभवं रुजाम् ।
सुकृतनिर्दलनं चलनं धृतेः परिहरेत् परवल्लभया रतम् ॥

3500

अशुचिर्वचनाद् यस्यशुचिर्भवति पूरुषः ।
शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥

3501

अशुचीक्षणेऽश्रुपाते कलहे श्वासकासयोः ।
रथ्याप्रसर्पणेऽभ्यङ्गे क्षुते नर्मण्युपस्पृशेत् ॥

3502

अशुद्धप्रकृतौ राज्ञि जनता नानुरज्यते ।
यथा गृध्रसमासन्नः कलहंसः समाचरेत् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc