भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3463-3482

3463

अशक्तो यः क्षान्तिं सततमपकारिण्यपि जने विधत्ते सोऽवश्यं भुजग इव दंष्ट्राविरहितः ।
प्रभुः सत्यां शक्तौ क्षमत इह यस्मात् सुचरितः स तेजस्वी लोकद्वितयविजिगीषुर्विजयते ॥

3464

अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद् दिवसानि कौशिकः ॥

3465

अशक्यं नारभेत् प्राज्ञः अकार्यं नैव कारयेत् ।
असत्यं नैव वक्तव्यम् आलस्यं नैव कारयेत् ॥

3466

अशक्यं नारभेत् प्राज्ञो अकार्यं नैव कारयेत् ।
यथादेशगतं धर्मं यथाकालं च जीवयेत् ॥

3467

अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै ।
अन्तःस्वभावैर्गीतैस्तैर् नैपुण्यं पश्यता भृशम् ॥

3468

अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलम् ।
आकाशमास्वादयतः कुतस्तु कवलग्रहः ॥

3469

अशङ्कितमतिः स्वस्थो न शठः परिसर्पति ।
न चास्य दुष्टा वाक् चापि तस्मान् नास्तीह संशयः ॥

3470

अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः ।
अशङ्क्याद्भयमुत्पन्नम् अपि मूलं निकृन्तति ॥

3471

अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् ।
भयं हि शङ्किताज्जातं समूलमपि कृन्तति ॥

3472

अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञम् ।
यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥

3473

अशठहृदयः कृतज्ञः सानुक्रोशः स्थितः सतां मार्गे ।
अपरापवादकर्मा शुचिकर्मरतः स खल्वार्यः ॥

3474

अशनं मे वसनं मे जाया मे बन्धुवर्गो मे ।
इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ॥

3475

अशनं वसनं वासो यस्य काश्याममार्गतः ।
कीकटेन समा काशी गङ्गाप्यङ्गारवाहिनी ॥

3476

अशनमात्रकृतज्ञतया गुरोर् न पिशुनोऽपि शुनो लभते तुलाम् ।
अपि बहूपकृते सखिता खले न खलु खेलति खे लतिका यथा ॥

3477

अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि ।
एतस्मात् कारणाद् वित्तं सर्वसाधनमुच्यते ॥

3478

अशनैरशनैर्बाल्ये यौवने घस्मरात् स्मरात् ।
कल्यवैकल्यतः शेषे स्फुटं नष्टं वयो नृणाम् ॥

3479

अशरणशरणप्रमोदभूतैर् वनतरुभिः क्रियमाणचारुकर्म ।
हृदयमिव दुरात्मनामगुप्तं नवमिव राज्यमनिर्जितोपभोग्यम् ॥

3480

अशर्मदहनज्वलत्कटुकटाक्षरूक्षेक्षण- क्षणक्षपितशात्रवे जयति सिन्धुराधीश्वरे ।
वयं न बहु मन्महे निजभुजानमद्गाण्डिव- च्युतास्त्रशिखिताण्डवज्वलितखाण्डवं पाण्डवम् ॥

3481

अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।
कृमिः स्त्रीवधकर्त्ता च बालहन्ता च जायते ॥

3482

अशस्त्रपूतमव्याजं पुरुषाङ्गोपकल्पितम् ।
विक्रीयते महामांसं गृह्यतां गृह्यतामिदम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc